पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 [ अष्टादशस्मृतिः

  • अत्रिसंहिता *

१४ चाण्डालेन तु संस्पृष्टं यत्तोयं पिबति द्विजः । कृच्छ्रपादेन शुध्येत आपस्तम्बोजवीन्सुनिः ॥२०६॥ श्लेष्मोपानहविगमूत्रस्त्रोरजो मद्यमेव च । एमिः संदूषिते कूपे तोयं पीत्वा कथं विधिः ॥२०॥ एकं यह व्यहं चैत्र द्विजातीनां विशोधनम् । प्रायश्चित्तं पुनश्चैव नक्तं शूद्रस्य दापयेत् ॥२०॥ सद्यो वान्ते सचैलं तु विप्रस्तु स्नानमाचरेत् । पर्युषिते त्वहोरात्रमतिरिक्ते दिनत्रयम् ॥२०॥ शिकण्ठोरुपादांश्च सुरया यस्तु लिप्यते । दशषत्रितयकाहं चरेदेवमनुक्रमात् ॥२१॥ अत्राप्युदाहरन्ति-प्रमादान्मद्यपः सुरां सकृत्पीत्वा द्विजोत्तमः। गोमूत्रयावकाहारो दशरात्रेण शुध्यति॥ मद्यपस्य निषादस्य यस्तु भुङ्क्ते द्विजोत्तमः । न देवा भुञ्जते तत्र न पिबन्ति हविर्जलम् ॥२१२॥ चितिभ्रष्टा तु या नारी ऋतुभ्रष्टा च व्याधिता । प्राजापत्येन शुध्येत ब्राह्मणानां तु भोजनात् ॥२१३॥ ये च प्रव्रजिता विप्राःप्रव्रज्याग्निजलावहाः । अनाशकानिवर्तन्ते चिकीर्षन्ति गृहस्थितिम् ॥२१४॥ धारयेत्रीणि कृच्छ्राणि चान्द्रायणमथापि वा । जातकर्मादिकं प्रोक्तं पुनः संस्कारमर्हति ॥२१॥ नाशौचं नोदकं नाश्रु नापवादानुकम्पने । बूमदण्डहतानां तु न कार्य कटधारणम् ॥२१६॥ स्नेहं कृत्वा भयादिभ्यो यस्त्वेतानि समाचरेत् । गोमूत्रयावकाहारः कुच्छ्रमेकं विशोधनम् ॥२१७|| वृद्धः शौचस्मृतेलुनः प्रत्याख्यातभिषकक्रियः। प्रोत्मानं घोतयेद्यस्तु भृग्वग्न्यनशनाम्बुमिः ॥२१८॥ तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसंचयम् । तृतीये तुदकं कृत्वा चतुर्थे श्राद्धमाचरेत् ॥२१॥ यस्यैकाऽपि गृहे नास्ति धेनुर्वत्सानुचारिणी । मङ्गलानि कुतस्तस्य कुतस्तस्य तमः क्षयः ।। अतिदोहातिवाहाम्यां नासिकाभेदनेन वा । नदीपर्वतसंरोधे मृते पादोनमाचरेत् ॥२२१॥ अष्टागवं धर्महल षड्गवं व्यावहारिकम् । चतुर्गन नृशंसानां द्विगवं वध्यते सह ॥२२२॥ द्विगवं वाहयेत्पादं मध्याह्न तु चतुर्गवम् । षड्गनं तु त्रिपादोक्तं पूर्णाहस्त्वष्टभिः स्मृतः ॥२२३॥ काष्ठलोष्टशिलागोप्नः कृच्छ सांतपनं चरेत् । प्राजापत्यं चरेन्मृत्सा अतिकृच्छ्तु आयौः ॥२२४॥ प्रायश्चित्ते ततश्चीर्णे कुब्रिाह्मणभोजनम् । अनडुत्साहितां गां च दद्याद्विप्राय दक्षिणाम् ॥२२५।। शरभोष्ट्रहयानागासिंहशार्दूलगर्दभान् । हत्वा च शूद्रहत्यायाः प्रायश्चित्तं विधीयते ॥२२६।। मार्जारगोधानकुलमण्डूकांश्च पतत्रिणः । हत्वा व्यहं पिवेत्तीरं कृच्छ वा पादिकं चरेत् ॥२२७॥ चाण्डालस्य च संस्पृष्टं विएमूत्रस्पृष्टमेव वा । त्रिरात्रेण विशुद्धिः स्याद्भुक्त्वोच्छिष्टं समाचरेत् ।।२२८॥ वापीकूपतडागानां दूषितानां च शोधनम् । उद्धरेद्धटशतं पूर्ण पञ्चगव्येन शुध्यति ॥२२६।। अस्थिचर्मावसिक्तेषु खरवानादिदूषिते । उद्धरेदुदकं सर्व शोधन परिमार्जनम् ॥२३०॥ गोदोहने चर्मपुटे च तोयं यन्त्राकरे कारुकशिल्पिहस्ते । स्त्रीबालवृद्धाचरितानियोन्यप्रत्यक्षदृष्टानि शुचीनि तानि ॥२३१॥ प्राकाररोघे विषमप्रदेशे सेनानिवेशे भवनस्य दाहे | आरब्धयज्ञेषु महोत्सवेषु तथैव दोषा न विकल्पनीयाः ॥२३२॥ प्रयास्वरण्ये घटकस्य कूपे द्रोण्यां जलं कोशविनिर्गतं च । श्वपाकचण्डालपरिग्रहे तु पीत्वा रेतोविएमूत्रसंस्पृष्टं कौपं यदि जनं पिवेत् । त्रिरात्रेणैव शुद्धिः स्यात्कुम्भे सांतपनं तथा ॥२३४।। पञ्चगव्येन शुद्धिः ॥२३शा CC.O- Jangamwadi Math Collection. Digitized by eGangotri