पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11:38 अष्टादशस्मृतयः]

  • लघ्वाश्वलायनस्मृति: *

१३७ मन्त्रैश्चैव स्वशाखोक्तः कर्म कुर्याद्यथाविधि । अन्यथा कर्महानिः स्याद्ववृचानामयं विधिः ॥१६॥ कर्मणां याजुषादीनां स्वस्वशाखा न विद्यते । ऋक्शाखाविहितं कर्म समानं सर्वशाखिनाम् ॥१७॥ बबूचानां तु यत्कर्म यदि स्यादन्यशाखया । पुनश्चैवापि तत्कर्म कुर्याद्ववृचशाखया ॥१८॥ हित्वा स्वस्य द्विजो वेदं यस्त्वधीते परस्य तु । शाखारण्डः स विज्ञेयः सर्वकर्मबहिष्कृतः ॥१६॥ रोगादिरहितो विप्रो धर्मज्ञो वेदपारगः । भुञ्जीयादमलं श्राद्ध साग्निकः पुत्रवानपि ॥२ पितृमानेव भुञ्जीयाछ्राद्धमिन्दुक्षये द्विजाः । वप्ताः स्युः पितरस्तेन दाता स्वर्गमवाप्नुयात श्राद्धकर्ता न भुञ्जीयात्पर श्राद्धे विधुतये । भुङ्क्ते चेपितरो यान्ति दाता भोक्ताऽप्यधोगतिम्॥ दर्शेष्टि काव्यतीपातो वैधृतिश्च महालयः युगाश्च मनवः श्राद्धकालाः संक्रान्तयस्तथा ॥२३॥ गजच्छायोपरागश्च पष्ठी या कपिला तथा । अर्थोदयादयश्चैव श्राद्धकालाः स्मृता बुधैः ॥२४॥ संभूते च नवे धान्ये श्रोत्रिये गृहमागते । आचार्याः केचिदिच्छन्ति श्राद्ध तीर्थे च सर्वदा ॥२॥ श्राद्धकालेषु सर्वेषु कुर्याच्छाद्धच शक्तितः। विशेषतो मृताहे तु पित्रोश्चैव विधीयते ॥२६॥ मोहान कुरुते श्राद्ध मातापित्रोमृतेऽहनि । निराशोः पितरो यान्ति दुर्गति चापि वै सुतः ॥२७॥ अज्ञानाद्वा प्रमादाद्वा यो मृताहमतिक्रमेत् । स याति नरकं घोरं यावदाभूतसंलवम् ॥२८॥ अतिक्रमं मृताहस्य दोषः स्यात्स्तकं विना । न कुर्याच्छाद्धमाशौचे प्रवदन्ति महर्षः ॥२६॥ आचरेविधिवच्छ्राद्ध मातापित्रोमृतेऽहनि । पितरस्तेन तृप्यन्ति गच्छन्ति पदमुत्तमम् ॥३०॥ सदाचारपरो विप्रः कृपालः श्राद्धकृत्तथा । आत्मनिष्ठोऽर्थलोकेषु तारयेत्तरति स्वयम् ॥३॥ इत्याश्वलायनधर्मशास्त्रे श्राद्धोपयोगिप्रकरणम् ॥२४॥ । समाप्तेयं लघ्वाश्वलायनस्मृतिः। ............. JAGADGURU VISHWAR EVANASIMHASANJNANAMATTE LIBRARY Jangamawadi Math, Varanas: Acc. No......597.2 CC.O- Jangamwadi Math Collection. Digitized by eGangotri