पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • लध्वाश्वलायनस्मृतिः *

[अष्टादशस्मृतयः उदक्यां सूतिका चैव पतितं शवमन्त्यजम् । श्वकाकरासभान्स्पृष्ट्वा सवासा जलमाविशेन ॥१३॥ तत्स्पृष्टिनः स्पृशेयस्तु स्नानं तस्य विधीयते । तदूर्ध्व तु समाचम्य व्यवहारे शुचिः स्मृतः ॥१४॥ उच्छिष्टस्पर्शनं चेत्स्यादश्नतो याजकस्य च । अन्नं पात्रस्थमश्नीयोनान्यदद्यात्कथंचन ॥१५॥ कुरुते. व्रतमङ्ग यो द्विजश्चैव विशेषतः । स गच्छेन्नरक चाऽऽशु प्रवदन्ति महर्षयः । १६॥ वेदविद्विजहरतेन सेवां संगृह्य ते यदि । न तस्य वर्धते धर्मः श्रीरायुः दीयते ध्रुवम् ॥१७॥ यस्य कस्य नरो यस्तु व्रते निष्ठुरभाषणम् । द्विजस्येह विशेषं च स च गच्छेदधोगतिम् ॥१८॥ कुरुते योऽपमानं च ब्राह्मणस्य विशेषतः। तस्याऽऽयुः क्षीयते नूनमायुर्लक्ष्मीश्च संततिः ॥१६॥ उचालयोपविष्टस्य मा न्यानां पुरतो यदि । गच्छेत्स विपदं नूनमिह चामुत्र चैव हि ॥२०॥ परदेवार्चको विप्रस्तदधीनो भवेद्यदि । मासत्रयं तदन्नाशी जीवशूद्रत्वमाप्नुयात् ॥२१॥ यश्च कर्मपरित्यागी पराधीनस्तथैव च । अधीतोऽपि द्विजश्चैव स च शूद्रसमो भवेत् ॥२२॥ अनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥२३॥ संतुष्टो येन केनापि सदाचारपरायणः । पराधीनो द्विजो न स्यात्स तरेद्भवसागरम् ॥२४॥ इत्याश्वलायनधर्मशास्त्र वर्णधर्मप्रकरणम् ॥२२ ।। %3DED (श्राद्धप्रकरणम् २३) अथ चैव द्विजः कुर्याच्छ्राद्ध पितरोमृतेऽहनि । तत्पार्वणविधानेन पितृयज्ञः स उच्यते ॥१॥ होमं कृत्वाऽथ पूर्वेद्य : सायं विप्रानिमन्त्रयेत् । प्रातश्चेत्तान्परेधुर्वा श्राद्धाहे वेदपारगान् ॥२॥ प्रातरौपासनाग्नेस्तु श्राद्धपाकार्थमुन्मुकम् । नीत्वाऽनं सकलं कृत्वा पुनः संमीलयेदुभौ ॥३॥ ततो मध्याहिकं स्नानं कृत्वा संध्यामुपास्य च। निमन्त्रितान्समाहूय क्रमाद्देवपितृद्वि जान् ॥४॥ प्राणानायम्य संकल्प्य श्राद्धार्थमनुवेदयेत् । कुशाचततिलयुक्तं जलपात्रे प्रपूर्य च ॥५॥ आत्मनश्चैव शुद्धयर्थ द्रव्यस्य गृहशुद्धये । द्विजैः सह पठेत्सूक्तं प्रायश्चित्तार्थमेव हि ॥६॥ नतं सूक्तं शुचीवोऽग्निः शुचित्रततमश्च हि । उदग्न इत्यथैतोनु त्रयो मन्त्राः क्रमेण तु ॥७॥ केचिद्यज्ञविदो ज्ञात्वा सूक्तानि कथयन्ति हि । पुरुषं चास्य वामस्य ममाग्ने वचं इत्यथ ।।८।। सौम्यं च वैष्णवं रुद्र पावमान्यमथापि वा । ऋग्भिश्च पावमानीमिर्जनं चैवामिमन्त्रयेत् ॥६॥ श्राद्धोपयोगिकं द्रव्यमपक्क' पक्कमेव वा । सर्व चैत्र स्मरेद्विष्णु जलेन प्रोक्षयेचरुम् ॥१०॥ ततः संस्तूप तान्विप्रान्समस्तेतिपठनयेत् । पुरतश्चार्पयेत्तेषां हिरण्यं सकुशं च हि ॥११॥ लब्ध्वाज्ञामपसव्येन श्राद्ध कतु पितुर्मम । प्राचम्यारनियम्याथ दद्यात्संकल्प्य वै क्षणम् ॥१२॥ देवानां चालयेत्पादौ मण्डले चतुरस्रके । पितृणां वर्तुलं चैव प्राङ्गणे रविदीपक ॥१३॥ ईशानः वाचमेकर्ता देवाः प्राच्यामथोचरे ।- पितरश्च पवित्राणि स्वस्वस्थाने स्पजेदथ ॥१४॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri