पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः] विवाहितामसंयोगां -

  • लघ्वाश्वलायनस्मृतिः *

१३१ मोहाच दुहेद्विजः । भूयन्तीमुद्बती चाभिगोमयेनानुलेपयेत् ॥६॥ सूत्रमशंवरादीनि परिहृत्याभिषेचयेत् । पल्लवैः पञ्चभिर्गव्यैः पावमानीमिरेव च ॥ प्रायश्चित्तं विधातव्यं कूष्माण्डं होममाचरेत् । पुनस्तामुद्वहेत्रोक्तां विधिवत्पूर्वजः पतिः ॥८॥ संभोगात्पूर्व एव स्यादुक्कोऽयं मुनिभिर्विधिः । ब्रात्यस्तोमं जपेदन्यः प्रायश्चित्तपुरःसरम् ॥१॥ ऊर्ध्व चेत्पतिसंयोगो जायते तां परित्यजेत् । संतानश्चेद्भवेत्तस्यां निन्धः स्यात्पतितः पतिः ॥१०॥ अज्ञातश्च द्विजो यस्तु विधवामुद्वहेद्यदि । परित्यज्य च च तां च प्रायश्चित्तं समाचरेत् ॥११॥ अब्दमेकं विधायाऽऽदाववकीणं व्रतं चरेत् । पुत्रश्चेज्जायते तस्यामेको गोलक उच्यते ॥१२॥ विधवायाः सुतस्य व गोलका कुण्ड इत्यथ । त्रयश्चैव हि निन्याः स्युः सर्वधर्मवहिष्कृताः ॥१३॥ संस्कार्य विधिवच्चोक्तं मुनिमिः कुण्डगोलको । युगान्तरे सधर्मः स्यात्कलौ निन्द्य इति स्मृतः ॥१४॥ परिवच्यां सुतः कुण्डो व्यभिचारसमुद्भवः । गोलको विधवायां च निषिद्धः स्यात्कलौ स्मृतः ॥१५॥ वार्षलेयश्च वै कुण्डो गोलका शूद्रयोनिजः । तज्जथापि हि निन्धः स्युर्माहिषेयश्च विप्रजः ॥१६॥ एभिः सह वसेदेषां याजनं कुरुतेऽथ वा । वित्तमेषां द्विजो यस्तु भुक्ते सोऽपि हि तत्समः ॥१७॥ एतेषां याजनं यस्तु ब्राह्मणः कुरुते यदि । स याति नरकं घोरं यावदिन्द्राचतुर्दश ॥१८॥ अद्विजानां चाध्ययनं याजनं च प्रतिग्रहम् । ब्राह्मणो नैव गृहणीयादिति प्राहुमुनीश्वराः ॥१६॥ इति आश्वलायनस्मृतौ लोके निन्धप्रकरणम् ॥ २१ ॥ . (अथ वर्णधर्मप्रकरणम् ।। २२) सर्वेषां चैव वर्णानामुत्तमो ब्राह्मणो यतः । क्षेत्रस्य - पालयेद्विषं विप्राज्ञाप्रतिपालका ॥१॥ सेवां चैव तु विप्रस्य शूद्रः कुर्याद्यथोदितम् । सर्वेषां चापि वै मान्यो वेदविद्विज एव हि ॥२॥ यजनादीनि कर्माणि कुर्यादहरहर्द्विजः । धर्मोऽयं द्विजवर्यस्य परमानन्ददायकः ॥३॥ रणे धीरो भवेत्क्षत्री जयाद्राज्यं च वैरिणः पालयेद्ब्राह्मणान्सम्यक्परं तेनैव जेष्यति ॥४॥ शूद्रः कुर्याद्विजस्यैव सेवामेव कृषि तथा । सुखं तेन लमेनून प्रवदन्ति महर्षयः ॥शा मामणः क्षत्रियो वाऽपि स्वधर्मेणानुवर्तयेत् । नाऽऽचरेत्परधर्म च धर्मनाशाय चाऽऽत्मनः ॥६॥ स्नानेन च बहिः शुद्धिरात्मज्ञानेन चान्तरा । सत्कर्मणा द्विजः शुद्धः सर्वकर्मसु चैव हि ॥७॥ स्वधर्मनियतो विप्रः कुरुते पातकं तदि । स्वधर्मेणैव शुद्ध न नान्यथा शुचितामियात् ॥८॥ न स्पृशन्तीह पापानि ब्राह्मणं वेदपारगम् । कदाचित्कुरुते मोहात्पद्मपत्रे यथा जलम् ॥६॥ अशुचिं नै स्पृशेत्स्नातः कर्मकाले कचिद्विजः । प्रचालिताङनिराचम्य कर्म कर्तुमथाईति ॥१०॥ जृम्भकारविकारः स्यात्नुत्वाऽधोवातनिर्मितः श्लेष्मोत्सारो भवेत्कर्मकाले चाभ्यज्य शुध्यति ॥११॥ न च तस्यादधोवायुः कर्मकाले द्विजस्य यत् । कृत्वा शौचं द्विराचम्य शिष्ट कर्म समापयेत् ॥१२॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri