पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • लघ्वाश्वलायनस्मृतिः *

[अष्टादशस्मृतयः पितृप्रसादागुञ्जन्ते धनानि विविधानि च । स्थावरं न तु भुज्येत प्रसादे सति पैतृके ॥११६॥ स्थावरं द्विपदं चैव यद्यपि स्वयमर्जितम् । असंभूय सुतान्सर्वान दानं न च विक्रयः ॥११॥ इति हारीतप्रणीतं धर्मशास्त्रं समाप्तम् ॥ समाप्त यं लघुहारीतस्मृतिः। -:-:- की Morpioॐ तत्सद्ब्रह्मणे नमः । लघ्वाश्वलायनस्मृतिः। -::-::- तत्र प्रथममाचारप्रकरणम्। आश्वलायनमाचाचं नत्वाऽपृच्छन्मुनीश्वराः। द्विजधर्मान्वदास्माकं स्वर्गप्राप्तिकरान्मुने । इति तद्वचनं अ त्वा स धर्मान्मुनिरब्रवीत् ॥१॥ धर्मान्वः पुरतो वक्ष्ये ध्यात्वाऽहं भो मुनीश्वराः । लोकस्य च हितार्थाय ब्रह्ममार्गरतस्य च ॥२॥ स्नानं संध्या जपो होमः स्वाध्यायाभ्यसनं तथा। माध्याहिकी क्रियो पञ्चयज्ञाद्यतिथिपूजनम् ॥३॥ दानशिष्टप्रतिग्राही पोष्यवर्गः सहाशनम् । सत्कथाश्रवणं सायंसंध्याहोमादिकं च हि ॥४॥ शयनं च यथाकाले धर्मपत्न्या सह गृही। ब्रह्मचारी स्वधर्मस्थो गुरुसेवा परो वसेत् ।।५॥ यजनं याजनं चैव वेदस्याध्ययनं च हि । अध्यापनं तथा दानं प्रतिग्रहमिहोच्यते एतानि ब्राह्मणः कुर्यात्षटकर्माणि दिने दिने । अतः प्रातः समुत्थाय चिन्तयेदात्मनो हितम् ॥ ७॥ निर्गुणं निरहंकारं नारायणमनामयम् । सगुणं च श्रिया युक्तं देवं देवी सरस्वतीम् ॥८॥ यथाविधि ततः कुर्यादुत्सर्ग मलमूत्रयोः । ब्रह्मचारी गृहस्थश्च शौचमद्भिमृदाऽऽचरेत् ॥६॥ एका लिङ्गे करे तिस्रः करयो वयं गुदे । पञ्च वामे दश प्रोक्ताः करे सप्ताथ हस्तयोः ॥१०॥ एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः । वानप्रस्थस्य त्रिगुणं यतेश्चैव चतुर्गुणम् ॥११॥ स्वपादं पाणिना विप्रो वामेन वालयेत्सदा । शौचे दक्षिणपादं तु पश्चात्सव्यकरावुभौ ॥१२॥ शौचं विना सदाऽन्यत्र सव्यं प्रक्षान्य दक्षिणम् । एवमेवाऽऽमनः पादौ परस्याऽऽदौ तु दक्षिणम्॥ गण्डूषैः शोधयेदास्यमाच मेहन्तधावनम् । काष्ठे पणैस्तृणैर्वाऽपि केचित्पर्णैः सदा तृणैः ॥१४॥ नवमी द्वादशी नन्दा पर्व चार्कमुपोषणम् । श्राद्धाहं च परित्यज्य दन्तधावनमाचरेत् ॥१५॥ आचम्याथ द्विजः स्वायाचयां वा देवनिर्मिते । तीर्थे सरोवरे चैव कूपे वा द्विजनिर्मिते ॥१६॥ विराप्लुत्य समाचम्य शिखावन्धं समाचरेत् । प्राणानायम्य संकल्प्य त्रिवार मञ्जयेत्पुनः ॥१७॥ आचम्य वारुणं जाप्यं जपेत्सूक्तं च मार्जनम् । कुर्यादामो हि सूक्तेन ऋतमित्यघमर्षणम् ॥१८॥ वि- CC.O- Jangamwadi Math Collection. Digitized by eGangotri