सव्याख्यायामद्वैतसिद्धौ 20 [प्रथमः स्यापि स्वनिष्ठधर्मावभासकत्वेन तद्वत्पक्षपातित्वसंभवात् । तस्मा- दविद्याकृतविच्छेदेन ब्रह्मण्येव नित्यमुक्तत्वसंसारित्वसर्वज्ञत्वकिं- चिज्ज्ञत्वादिव्यवस्थोपपत्तिः । एतेनासर्वज्ञत्वादिनाऽनुभवसिद्धा- जीवादन्यस्य चेतनस्याभावेन सार्वज्ञयादिश्रुतिर्निर्विषया स्यात्, एकजीववादे संसार्यसंसारिव्यवस्थायोगात्- 'द्वा सुपर्णा' 'य आत्मनि तिष्ठन्' इत्यादिश्रुतिभिः, 'अन्यश्च परमो राजन् तथाऽन्यः पञ्चविंशकः । तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ' ॥ इत्यादिस्मृतिभिः, 'शारीरश्चोभयेऽपि हि भेदेनैनमधी- -- व्यैश्वर्यमस्ति, परंतु तिरोहितम् अज्ञानकृतावरणाद्देहाभिमानाच, ईश्वरप्रसादादाविर्भवति' इत्यादिभाष्येणोक्तत्वाच्च । एवं चेशस्य कार्यमात्रोपादानत्वपक्षोऽपि सङ्गच्छते । एतेन --- अतिशयेन प्रतिबिम्बे कार्यकरत्वं ईशनिष्ठकार्यापेक्षयाधिकसङ्ख्याक कार्यकरत्वं वा विलक्षण- कार्यकरत्वं वा । नाद्यः ; ईशनिष्ठाकाशाद्यपेक्षया जीवनिष्ठानामा- धिक्यानिर्णयात् । न च – जीवभेदेऽप्याका शादेरेकैकत्वात्तथा निर्णय इति – वाच्यम्; तथापि जीवभेदन प्रपञ्चभेदपक्षे तदनिर्णयात् । नान्त्य: ; ईशेऽपि जीवनिष्ठकार्यापेक्षया विलक्षण कार्यजनकत्वेनेश- पक्षपातित्वस्यापि वक्तुं शक्यत्वादिति परास्तम्; ईशकार्यविलक्षण- कार्याणां जीवे जनकत्वानपायात्, जीवं प्रत्यावरणस्यैव जीवनिष्ठ- कार्येऽतिशयरूपत्व संभवाच्चेत्याशयेनाह तस्मादिति । अविद्याकृत- विच्छेदेन अविद्याप्रयुक्तभेदेन । नित्यमुक्तत्वेति । सत्यत्वेन ज्ञायमान दृश्य संबन्ध रूपबन्धाश्रयान्यत्वेत्यर्थः । आत्मनि जीवे । तिष्ठ- निति । ‘आत्मानमन्तरो यमयति' इति श्रुतिशेषः । शारीरश्चेति । ब्रह्मणोऽन्य इति शेषः । उभये काण्वा माध्यन्दिनाश्च 'यो विज्ञाने । ।
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९८८
दिखावट