पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्यायाश्चिन्मात्राश्रयत्वोपपत्तिः 19 पातित्वोपपत्तेः । यत्तूक्तं मुखादिगतं बिम्बत्वं ब्रह्मगतं सार्वज्ञयादिकं चानौपाधिकं स्यादिति, तन; उपाधौ बिम्बका- र्यकरत्वमेव नेतीति न ब्रूमः, किंतु प्रतिबिम्बे अतिशयेनेति । यदपि बुद्धिरूपोपाधरपि न प्रतिबिम्बपक्षपातित्वम्, तस्य प्रति- बिम्बापक्षपातिजपाकुसुमस्थानीयत्वेन तत्पक्षपात्यादर्शस्थानयि- त्वाभावादिति, तन्न ; स्वनिष्ठस्थौल्यावभासकत्वेनादर्शस्येवा- मिति भावः । उपपत्तेरिति । यथानुभवबलाद्दर्पणादेः प्रतिबिम्ब एव मालिन्यादिभ्रमहेतुत्वं तथा श्रुत्यनुभवादिबलाज्जीव एवाविद्याया मनस्त- त्परिणामहेतुत्वम् ; ईशे तु सर्वज्ञत्वाकाशादिहेतुत्वमिति भावः । प्रति- बिम्बं प्रत्येव स्वविषया'च्छादकत्वमिति चतुर्थपक्षोऽपि युक्तः ; दर्पणादौ स्वविषयाच्छादकान्यत्वेऽप्युक्तरूपस्येवाज्ञाने प्रतिबिम्बं प्रत्येवानतिशय नन्दस्वरूपावरकत्वरूपस्य प्रतिबिम्बपक्षपातित्वस्य संभवात् । न हि सर्वत्रोपाधावेकजातीयं तद्वाच्यमिति कुलधर्मः । एवं च 'अनृतेन हि प्रत्यूढा: ' 'मूढ इव व्यवहरन्नास्ते' इत्यादिश्रुत्यादिना जीवं प्रत्या- वरकमज्ञानं नेशं प्रतीत्येव जीवेशयोर्विशेषसंभवेनेशे मनस्तत्परिणाम- संबन्धस्वीकारेऽपि न क्षतिः | ईशस्य रागादिशून्यत्वश्रुतिस्तु जीव- न्मुक्तस्याशरीरत्वादिश्रुतिरिव तदीयदृष्टिमाश्रित्य नेया || - , अथैवमीशस्यैव सार्वज्ञय सर्व कर्तृत्वादि जनकत्वेना ज्ञानस्य बिम्ब- पक्षपातित्वमप्यनिवार्यामीति चेत्, अस्तु तथा; तथाप्युक्तस्य प्रति- बिम्बपक्षपातित्वस्यानपाय एव । न च सार्वज्ञयादेर्जीवेऽप्यापत्तिः ; मनो- वृत्तिं विनाऽऽवरणानभिभवेन सर्वज्ञानेच्छाकृत्यसंभवात् । आवरणमेव तत्तदैश्वर्यतिरोधायकमित्यस्य ' पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्ध- विपर्ययौ ' 'देहयोगाद्वा सोऽपि ' इति सूत्राभ्यां, 'ईश्वराभेदाज्जीवस्या- 1 अनतिशयानन्दम्व विषया-गः ' 2*