पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः प्रतीतेः । 'अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः , इति त्वन्मतेऽपि अविद्या बन्धिका बन्धो वा, न तु बद्धा, येन स्वनिष्ठबन्ध रूपधर्म सङ्क्रामकत्वं स्यात् । न द्वितीयः ; विच्छेदादेरुपाधिकार्यस्य बिम्बे महाकाशे च दर्शनात्, मुखस्य' बिम्बत्वादेर्ब्रह्मस्थसार्वज्ञयादेवानौपाधिकत्वापाताच्च । नापि तृतीयचतुर्थौ ; दर्पणघटादावदृष्टेः । एवं बुद्धिरूपोपाधिरपि न प्रतिबिम्बपक्षपातीति चेन्न; अतिशयेन कार्यकरत्वमेव तत्पक्षपा- तित्वम् । तथाच विच्छेदादिरूप कार्यकरत्वस (म्येपि स्थौल्याद्य- वभासरूपकार्यकरत्वेन दर्पणादे: प्रतिबिम्बपक्षपातित्ववत् कर्तृ त्वभोक्तृत्वादिसंसाररूप कार्यकरत्वेनाविद्यायामपि प्रतिबिम्बपक्ष- अविद्यास्तमय इति । बन्धो वा बन्धश्च । न तु बद्धा न तु कर्तृत्वादिबन्धाश्रयः । तथाच कर्तृत्वादिकं नाविद्यापरिणाम इत्याभ मानः । धर्मसङ्क्रामकत्वं धर्मस्यैव सङ्क्रामकत्वम् । दर्शनादिति । प्रतिबिम्बभिन्ने स्वकार्याप्रतिभासकत्वं द्वितीयस्य पर्यवसितार्थः, स च न संभवतीति भावः । ननु – विच्छेदो बिम्बभेदः स्वनिष्ठो न स्वकार्य इति तस्य प्रतिबिम्बे सङ्क्रामकत्वेऽपि प्रकृते न दोषस्तत्राह-मुखस्थेति । प्रति- बिम्बपक्षपातित्वमित्यत्र प्रतिबिम्बपदमुपाध्यन्तर्गतपरतयाऽवच्छिन्ना- काशाद्यर्थक मपीत्याशयेन पूर्वं महाकाश इति अग्रे घटादाविति चोक्तम् । अतिशयेनेति । यथा सर्वाभिमतदाताऽपि भगवान् भक्तान्प्रत्येवातिश- येन तद्दातृत्वात्तत्पक्षपातीत्युच्यते, तथा बिम्बप्रतिबिम्बयोः कार्यकरोऽ- प्युपाघिरतिशयेन प्रतिबिम्ब एव कार्यकरत्वात्पक्ष पातीति भावः । स्थौल्यादीति | स्थूलमलिनदर्पणादेः प्रतिबिम्बे स्थौल्यादिधीजनकत्व- मुखस्थ. 2 त्वात्तत्पक्ष -ग.