पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्यायाश्चिन्मात्राश्रयत्वोपपत्तिः यते' 'भेदव्यपदेशाच्च' इत्यादिसूत्रैः, 'तस्माच्छारीरादन्य एवेश्वरः । आत्मानौ तावेतौ चेतनौ एकः कर्ता भोक्ता अन्य- स्तद्विपरीतोऽपहतपाप्मत्वादिगुणः' इत्यादिभाष्यैः, 'तत्वज्ञान- संसरणे चावदातत्वश्यामत्वादिव नेतरतरत्रावतिष्ठेते' इत्यादिविव- रणग्रन्थैश्च विरोध इति निरस्तम् । ननु – चिन्मात्रस्याज्ञानं स्वाभाविकमौपाधिकं वा, नाद्यः; आत्मवदनिवृत्तिप्रसङ्गात् । नान्त्यः ; स्वस्यैवोपाधित्वे आत्माश्रयात्, एतदपेक्षान्यापेक्षत्वेऽ- न्योन्याश्रयात्, तदन्यान्यापेक्षत्वे चानवस्थानादिति – चेन्न ; स्वस्यैवाश्रयत्वोपाधित्वात् । न चात्माश्रयः ; भेदस्य स्वभेद - कत्ववदुपपत्तेः, स्वाभाविकस्यापि घटरूपस्य तत्प्रागभावस्य च निवृत्तिदर्शनात् ॥ - इत्य द्वैतसिद्धावविद्यायाश्चिन्मात्राश्रयत्वोपपत्तिः ॥ 21 तिष्ठन् ' ' य आत्मनि तिष्ठन्' इति च नियम्यनियन्तृभावरूपेण भेदेन हि यस्मादधीयते पठन्ति । तत्त्वज्ञानसंसरणे – अनावरणावरणे । तर्केरित्यादि – अज्ञानशुद्धचित्स्थितिः || इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायामज्ञानस्य चिन्मात्राश्रयत्वोपपत्तिः ॥