पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः ज्ञातृत्वभोकृत्वादिमत्वे जीवाश्रिताज्ञानपक्षप्रवेश इति वाच्यम्; अविद्यावच्छिन्नस्य हि ज्ञातृत्वम् ; अविद्या च नाविद्यावच्छेदेन; सामानाधिकरण्यं चावच्छेद्यांशैक्यमादाय | यथोपाधिसंबन्धो मुखमात्र एव, औपाधिकमालिन्यसंबन्धस्तूपाध्यवच्छिन्ने, सामानाधिकरण्यमपि । बिम्बप्रतिबिम्ब योरैक्यात्, तथा - यथा प्रतिबिम्बो न वस्त्वन्तरम्, तथा वक्ष्यते । ननु – शुक्त्यज्ञानमपि शुक्त्यवच्छिन्नचैतन्यगतं वाच्यम्, तथा च 'अहं जानामीच्छामी' तिवत् 'अहं न जानामी' ति ज्ञातृस्थत्वानुभव- विरोध इति - चेन ; अज्ञानद्वैविध्यात् । एकं हि शुक्त्यवच्छिन्न- चैतन्याश्रितं तद्गतापरोक्षभ्रमजनकं तद्विषयापरोक्षप्रमानाश्यम् । अपरं च परोक्षश्रमजनकं तद्विषयप्रमामात्रनाइयं प्रमातृत्वप्रयो- जकोपाध्यवच्छिन्नचैतन्याश्रितमित्युक्तं प्राक् । तत्र प्रमातृत्वप्रयो- जकोपाध्यवच्छिन्नचैतन्यगताज्ञान विषय कोऽयमनुभवः । तेन प्रमा तृनिष्ठत्वविषयतास्य न विरुध्यते । अत एव विषयगताज्ञाने विद्यमानेऽपि प्रमातृगताज्ञाननाशेन न ज्ञानामीति व्यवहारा- भावः । ननु – उपाधेः प्रतिबिम्बपक्षपातित्वान्न ब्रह्मणः संसा- रित्वमित्युक्तं, तदयुक्तम् ; बिम्बप्रतिबिम्बभावस्यैवासंभवात् । तथाहि – अचाक्षुषस्य चैतन्यस्य गन्धरसादिवत्प्रतिबिम्बतान- र्हत्वात्, प्रतिबिम्बत्वे जविस्य सादित्वापाताच्च, सूर्यस्य सरिजल इव मरीचिकाजलेष्वप्रतिफलनेन चिदसमानसत्ताक- श्रयत्वे च तत्प्रयोजकामति मावः । सामानाधिकरण्यं च अज्ञो ज्ञातेत्यभेदोक्तिश्च । अवच्छेद्यांशैक्यं अविद्यावाच्छिन्नेन शुद्धस्यैक्यम् | ऐक्यात् तादात्म्यात् । सामानाधिकरण्यमपि बिम्बीभूतं ग्रीवास्थ मुखं मलिनमित्यभेदोक्तिरपि । न वस्त्वन्तरमिति । किंतु बिम्बमेवोपाधिस्थत्वादिविशिष्टं सत्प्रतिबिम्ब इति शेष । तथाचाभेदो - 14