पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्यायाश्चिन्मात्राश्रयत्वोपपत्तिः स्याज्ञानस्य चितं प्रत्युपाधित्वायोगात्, अस्वच्छस्याज्ञानस्य प्रतिबिम्बितोपाधित्वायोगाच्च, अविद्यायाश्चिन्मात्राभिमुख्यासं- भवाच्च, अज्ञानस्याकाशाद्यात्मना परिणामे प्रतिबिम्बापायापाता- चेति चेन्न; रूपवत एव प्रतिबिम्ब इत्यस्या व्याप्ते रूपादौ व्यभि- चाराद्यथा भङ्गः, एवमाकाशादौ व्यभिचाराच्चाक्षुषस्यैव प्रतिबिम्ब इत्यस्या अपि व्याप्तेर्भङ्गः । वस्तुतस्तु श्रुतिबलाञ्चितः प्रतिबिम्बे सिद्धे तत्रैव व्यभिचारान्नेयं व्याप्ति: ; तथाच रसादिव्यावृत्तं फलैकोन्नेयं प्रतिबिम्बप्रयोजकम् | नापि जीवस्य सादित्वापत्तिः; उपाधिबिम्बसंबन्धानादित्वेनानादित्वोपपत्तेः । विस्तरस्तु सिद्धा- न्तबिन्दौ । यत्तूक्तं मरीचिकाजले सूर्यप्रतिबिम्बादर्शनाद्विम्ब- समानसत्ताकत्वं प्रतिबिम्बोद्राहित्वे प्रयोजकमिति, तन्न; अध्य- स्तस्य स्फटिकलौहित्यस्य दर्पणे प्रतिबिम्बदर्शनात् । तस्मान्मरी - चिकाजलव्यावृत्तं स्वच्छत्वं फलैकोनेयमननुगतमेव प्रतिबिम्बो- ग्राहित्वे प्रयोजकम् । तच्च प्रकृतेऽप्यस्ति । अत एव अज्ञा- युज्यत इति भावः । वाच्यमिति । मूलाज्ञानवदित्यादिः । रूपादौ स्फटिकायुपाधि कजपा लौहित्यादौ । आकाशादौ जलप्रतिबिम्बिता- काशादौ । श्रुतिबलात् 'जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवती 'ति' रूपं रूपं प्रतिरूप ' इत्यादिश्रुतिबलात् । विस्तर इति । विभ्रमहेतूनां विचित्रत्वादचाक्षुषस्यापि प्रतिबिम्ब: ; 'आभास एव च, अत एव चोपमा सूर्यकादिव' दित्यादिसूत्राणि च तत्र मानमित्यादि- विस्तर इत्यर्थ: । अध्यस्तस्येति । स्फटिके साक्षात्संबन्धेन लौहित्य- प्रत्ययस्यानुभविकत्वाद्वाधाच्च तत्र तदध्यस्तमिति भावः । मरीचिका- जलादे: प्रातीतिकस्य प्रतिबिम्बोपाधित्वस्यादृष्टत्वेऽपि व्यावहारिकस्य दर्पणादेखि ज्ञानादेरपि प्रतिबिम्बोपाधित्वं नायुक्तमित्यपि बोध्यम् । अत एव अननुगतस्य प्रतिबिम्बोपाधितायोग्यत्वस्यैव स्वच्छत्व- 15 - -