पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः ] अविद्यायाश्चिन्मात्राश्रयत्वोपपत्तिः 13 , रूपमिदमप्यज्ञानं स्वकार्येण भ्रान्त्यादिना स्वनिवर्तकेन तत्त्व- ज्ञानादिना स्वसमानयोगक्षेमेण ज्ञानप्रागभावेन च सामानाधि- करण्याय ज्ञात्रात्मनिष्ठम्, न तु चैतन्यरूपज्ञानाश्रितमिति - चेन; चैतन्यस्यैव ज्ञातृत्वेन ज्ञातुरर्थाप्रकाशरूपत्वस्य सम्यकज्ञाना- श्रयत्वस्य भ्रान्त्यादिसामानाधिकरण्यस्य चोपपत्तेः । न चैवं- ज्ञातृत्वे सत्यविद्याश्रयत्वम् अविद्यायां ज्ञातृत्वमित्यन्यो- न्याश्रय इति – वाच्यम्; अविद्याया ज्ञातृत्वानपेक्षत्वेनान्यो- न्याश्रयाभावात् । न हि सामानाधिकरण्यमस्तीत्येतावतैव तद- पेक्षया अनया भवितव्यम् । न च – शरीरेऽपि ज्ञातृत्वाध्यास - संभवन तत्राप्यज्ञानाश्रयत्वापत्तिरिति वाच्यम्; न हि ज्ञातृ- त्वाध्यासोऽज्ञानाश्रयत्वे प्रयोजकः, येन तन्मात्रेण तदापद्येत, किंतु प्रसक्तप्रकाशत्वमज्ञानानाश्रितत्वं च । न चैवमविद्याश्रयस्य - --- , , चैतन्यस्य – अज्ञानाश्रयशुद्धचिदभिन्नसाक्षिण । ज्ञातुरथप्रकाशोऽ. ज्ञानमित्यत्र ज्ञातृसंबद्धमज्ञानमित्यर्थः स चाक्षतः; साक्षिणि ज्ञातर्य- ज्ञानवदभेदात् एवं भ्रमादिसामानाधिकरण्यमपीति भावः । वस्तुतो ज्ञातारं प्रत्यावरकत्वमेव षष्ठयोल्लिख्यते, न तु ज्ञातृनिष्ठत्वम् ; शुक्तवाद्य- ज्ञानस्येदमंशादौ कार्यजनकत्वानुरोधेन स्वसमानाश्रयज्ञाननिवर्त्यत्व निय- मानुरोधेन चेदमंशावच्छिन्नचित्यहमर्थे चाश्रयत्वावश्यक त्वेऽपि ज्ञानस्य शुद्धचित्येव स्वकार्यजनकत्वात् ; स्वकार्यमनःपरिणामविशेष- निवर्त्यत्वनियमेनैवानातिप्रसङ्गाच्च, शुद्धचिदाश्रितत्वमेव युक्तमिति ध्येयम् ॥ मूला- अनावृतचित्संबन्धादहङ्कारस्यापि प्रसक्तप्रकाशत्वादाह --- अज्ञा- नानाश्रितत्वं चेति । यद्यपि प्रसक्तप्रकाशत्वमज्ञानविषयत्व एव प्रयोजकम्, तथाप्यभानापादकाज्ञानस्य विषयाश्रितत्वात्तद्विषयत्वे तदा-