पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धाँ 12 [प्रथमः - - विरोधः; तदाश्रयत्वाभावेऽपि तत्कार्ययोगितया अज्ञत्वव्यप- देशोपपत्तेः । न च - ब्रह्मणोऽपि जीवाश्रिताज्ञानविषयत्वेन मायित्वोपपत्तिरिति वाच्यम्; जीवत्वस्याश्रयतावच्छेदकत्वे पर स्पराश्रयप्रसङ्गात् । ननु – शुक्तयाद्यज्ञानवज्ज्ञातुरर्थाप्रकाश- निगडेन बद्ध इतीति भावः । योगितयेति । ज्ञपदस्य जीवव्यावृत्त- सर्वज्ञत्वरूपेण बोधकत्वादज्ञपदस्यासर्वज्ञत्व रूपेणैव बोधकत्वमित्यपि बोध्यम् । यद्यप्यज्ञानवत्केवलाभेदाज्जीवस्याज्ञत्वोक्तिः संभवति, तथा- पीशेऽपि तथा संभवात्प्रकृते सा नाहता । ब्रह्मणोऽपीति । अज्ञानानाश्रयत्वेऽपीति शेषः । उपपत्तिः - व्यपदेशोपपत्तिः । जीवत्व- स्येत्यादि । मनोऽवच्छिन्नाचेत्त्वरूपं जीवत्वमाश्रयतावच्छेदकं परेण वाच्यम् ; 'अहमज्ञ' इति प्रतीतेः 'अहमज्ञ' इति प्रतीतेः प्रमाणत्वेनोपन्यासात्, तच्च जीवत्वमज्ञानाधीन मिति परस्पराश्रयः । अज्ञानावच्छिन्न- चित्त्वरूपं जीवत्वं तु वाचस्पतिमतेऽज्ञानाश्रयतावच्छेदकं वक्ष्यत एव, परंतु तस्मिन् पक्षे आश्रयताया अवच्छिन्नत्वकल्पने गौरवादन - वच्छिन्नाश्रयतापक्ष एव युक्तः । यदि तु नाज्ञानाश्रयतायां जीवत्वं संयोगादौ शाखादिकमिवावच्छेदकम्, किंत्वाश्रयीभूतजीवस्योपाधि- मात्रम् ; शुद्धस्याश्रयत्वपक्षे ज्ञाविति श्रुतावज्ञपदस्याज्ञानकार्यविशेषा- श्रय इव वाचस्पतिपक्षे मायिनमिति श्रुतिपदे मायाविषायीण लक्षणा न दोष इत्यालोच्यते; तथाप्युपहितचिदपेक्षया शुद्धचितो लघुत्वात्तत्रैवा- श्रयत्वं युक्तम् । अहमर्थाश्रितमज्ञानमिति परपक्षस्तु सर्वथा न युक्तः ; अहमर्थानुत्पत्तिदशायां तदाश्रितत्वासंभवात् शुद्धचिदाद्याश्रितत्वेऽ- बश्यं वाच्ये तेनैवोक्तरीत्याऽहमज्ञ इति बुद्धधुपपत्तेः, अज्ञान कार्यत्वा- दहमर्थोऽज्ञानाश्रितः अहमर्थाश्रितं चाज्ञानामति स्थितावन्योन्याश्रयात् । , 1 ज्ञाताविति - ग. 2 श्रयान्च-ग. ,