परिच्छेदः] अविद्यायाश्चिन्मात्राश्रयत्वोपपत्तिः 11 अन्यथा वा- ङ्कारः; किंतु सवादिप्रापकयुक्तावनुपपत्तिः; दिवचसोऽनवकाशापत्तेः । ननु – 'निरनिष्टो निरवद्यः शोकं मोहमत्येति नित्यमुक्त' इति श्रुतिविरोधात्र शुद्धचितोऽविद्या- श्रयत्वम् ; न हि मौढ्यं न दोषः, नापि बन्धकाज्ञानाश्रयो मुक्तः, न च तात्त्विका विद्यादेरेव निषेधः; त्वन्मते तस्याप्रसक्तेः, जीवेsपि तदभावन जीवब्रह्मणोः सावद्यत्वनिरवद्यत्वव्यवस्थाश्रुतिविरोध इति – चेन्न; अवद्यस्य चिति कार्यकारित्वाभावेन कार्यकरत्वा- कार्यकरत्वाभ्यामेव सावद्यत्वनिरवद्यत्वव्यवस्थोपपत्ते ; उपाधेः प्रतिबिम्बपक्षपातित्वात् । न च – चिन्मात्रस्याविद्याश्रयत्वे प्रमाणाभावः, जीवाश्रितत्वे च प्रमाणमस्तीति वाच्यम्; 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर मिति श्रुतेरेव प्रमाणत्वात् । 'ज्ञाज्ञावीशानीशा' विति जीवाज्ञानप्रतिपादकश्रुति- न - इति । अनुपपत्तिस्वीकारा न कुलधर्म:, किंतु परिहर्तुमशक्याऽ- नुपपत्तिरनिर्वाच्यताख्यापकत्वेन स्वीक्रियत इति भावः । युक्त अनुपपत्तिः– प्रतिकूलतर्कः । अनुमानादितत्सहकारितर्केषु । - ——— अन्यथा – परिहारयोग्यानुपपत्तेरपि स्वीकारे । दोषः— अवद्यम् । चिति–जीवान्यचिति । कार्यकारित्वेति । अहङ्कारतत्कार्यरागादिका रित्वे- त्यर्थः । प्रमाणत्वात् — शुद्धस्याज्ञानवत्त्वे प्रमाणत्वात् । केवलस्या- मायित्वेऽपि महेश्वरत्वोपहिताभेदादुक्तश्रुतिसङ्गतिः, जीवस्य मायाश्रयत्वे तु तस्योक्ताभेदाभावात्तदसङ्गतिः । न चैवं-- केवलस्य जीवेनाप्यमेदा- ज्जीवस्यापि मायावत्त्वेन श्रुतिः स्यादिति – वाच्यम्; 'मायया सन्नि- रुद्ध: ' 'मूढ इव व्यवहरन्नास्ते माययैवे' त्यादेरेव तादृशश्रुतित्वात् । न हि कुठारायुक्ते कुठारेण छिनत्तीति प्रयोगः, न वा निगडशून्ये -
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९७९
दिखावट