पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 सव्याख्यायामद्वैतसिद्धौ - दग्धृत्वायसोरेकाग्निसंबन्धादयो दहतीतिवदज्ञानाहङ्कारयोरेक- चिंदैक्याभ्यासाद्वा 'अहमज्ञ ' इति धर्भ्रािन्तेति – वाच्यम्; चेन्न; अन्योन्याश्रयादिति चितोऽज्ञानाश्रयत्वासिद्धया अहङ्कारस्याविद्याधीनत्वेन श्रयत्वे सिद्धे 'अहमज्ञ' इति [प्रथमः - तदनाश्रयतया चित एवाज्ञाना- प्रतीतेरैक्याभ्यासनिबन्धनत्वे- नाबाधकत्वात् । नचाविद्याश्रयत्वादेवाहङ्कारोऽकल्पितोऽस्तु, कल्पित एव वा तदाश्रयत्वमस्तु, अविद्यायामनुपपत्तेरलङ्कार- त्वादिति – वाच्यम्; अहमर्थस्य ज्ञाननिवर्त्यत्वेन दृश्यत्वेना- कल्पितत्वायोगात्, चिन्मात्राश्रितत्वं विना तद्गोचरचरमवृत्य - निवर्त्यत्वापातात्, स्वकल्पितस्य स्वाश्रितत्वेन स्वाश्रयत्वा- योगात् । नचाविद्यायामनुपपत्तिरलङ्कारः; अनुपपत्तिमात्रं नाल- - इति भावः । अज्ञानं नोपादानमिति पक्षेऽप्याह – दग्धृत्वेत्यादि । यथानावयसस्तादात्म्येनाध्यासादमिधर्मस्य दग्धृत्वस्यायसि अयोधर्मस्य पिण्डत्वादेरमौ चाध्यासः, तथा चित्यहङ्कारस्य तादात्म्येनाध्यासाच्चिद्ध- र्मस्याज्ञानाश्रयत्वप्रेमास्पदत्वनित्यत्वादेरहङ्कारे तद्धर्मस्य कर्तृत्वादेश्च चित्यध्यास इति भावः । भ्रान्तेति । न त्वहङ्कारस्य सत्यस्य सत्यो घर्मोऽज्ञानमिति पररीत्या प्रमेति शेषः । अविद्याधीनत्वे- नेति । 'जायते प्राणो मनः' 'मायां तु प्रकृतिम्' 'एवमेवैषा माया स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वे 'त्यादिश्रुतिभि- रित्यादिः । अकल्पितः - अविद्याधीनः । उक्तश्रुतेर्ज्ञाननिवर्त्य - त्वानुपपत्तेश्चाह – कल्पित एवेति । चिन्मात्रेति-अज्ञानस्येत्यादिः । आपातादिति । अभानापादकाज्ञानस्य स्वाश्रय विषयक ज्ञानै कनिवर्त्य - त्वादिति शेषः । स्वकल्पितस्य अज्ञानकल्पितस्य । नालङ्कार 1 दग्धृत्वादेरयसि-ग.