पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सब्याख्यायामद्वैतसिद्धौ अथाज्ञानवादे तत्प्रतीत्युपपत्ति. 6 सा चाविद्या साक्षिवेद्या, न तु शुद्धचित्प्रकाश्या । साक्षी चाविद्यावृत्तिप्रतिबिम्बितचैतन्यम् । तेन निर्दोषचित्प्रकाश्यत्वे- नाज्ञानस्य पारमार्थिकत्वापत्तिः, मोक्षेऽपि तत्प्रकाशापत्तिः, न च तदानीमविद्याया निवृत्तत्वात्प्रकाशाभाव: ; प्रतीतिमात्र- शरीरस्य प्रतीत्यनुवृत्तौ निवृत्त्ययोगादित्यादिदोषानवकाशः । अत एवोच्यते राहुवत्स्वावृतचैतन्यप्रकाश्याविद्येति । न चैवं प्यावश्यकत्वात्, स आत्मापि वाय्वादावुपादानं न त्वाकाशाद्येवेत्यर्थ- स्योक्तसूत्रात् स्फुटप्रत्ययात् मृत्सहिततया आत्मनो घटाद्युपधायकत्वेन मृदवस्थचित्कारणत्वानपहारात् । ‘ विश्वस्य योनि' मित्यादिश्रुतिः ' योनिश्च हि गीयते' इत्यादिसूत्रं च स्पष्टमुक्तार्ये प्रमाणम् | अत्रेदं बोध्यम् — विकारिण उपादानत्वा स्वीकारिणापि 'इदं रजतमि ' त्यादिभ्रमेषु 'नेदं रजत 'मित्यादिनिश्चयाभावो हेतुरवश्यं वाच्यः; अन्यथा उक्तनिश्चयसत्त्वे दोषात्तदापत्तेः । तथाचा गृहीताप्रामाण्यकाना- हार्यतादृशनिश्चयत्वेनाभावः कारणमिति तदपेक्षया लाघवात् 'नेदं रजत ' मित्याकारकाज्ञानत्वेनोपादानत्वमेव युक्तम् । गृहीताप्रामाण्यके आहार्ये वोक्तानश्चये' सत्युक्त ज्ञानसत्त्वादतादृशोक्तनिश्चये सति चोक्ता- ज्ञानासत्त्वा' दुक्तभ्रमोत्पादानुत्पादौ । विस्तरेणानिर्वचनीयख्यातिविवे- चने विवेचितमिदमस्माभिः ॥ तर्कैरित्यादि – अज्ञानार्थापत्तिरक्षणम् । इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायाम विद्यायामथांपत्तिः ॥ , , [प्रथमः अथाज्ञानवादे तत्प्रतीत्युपपत्तिः न चैवं न च कादाचित्काविद्यावृत्तिप्रतिबिम्बमास्यत्वे । 1 चोक्तनिश्चये - ग. नसत्त्वा-ग. 2