पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञान-अर्थापत्त्युपपत्तिः 5 सत्यत्वेऽपि सावयवं निरत्रयवं वा । आद्ये अनादित्वभङ्गः । द्वितीये परिणामित्वायोगो ब्रह्मवत् । न चाविद्यापक्षेsपि समः पर्यनुयोगः; तस्याः काल्पनिकत्वेन पर्यनुयोगायोगात् । तस्मादर्थापत्तिरविद्यायां प्रमाणम् || इत्यद्वैतसिद्धावविद्यायामर्थापत्तिः ॥ व्यतिरेकाभ्यां च मृदोऽप्युपादानत्वं न तु मृदवच्छिन्नचित्त्वेन हेतुत्वं येन गौरवमिति भावः । पर्यनुयोगः – सावयवत्वादिविकल्पः । काल्पनिकत्वेन युक्तिविरुद्धत्वव्याप्यमिथ्यात्वेन || - यत्तु – सत्यत्वपक्षेऽपीश्वरशक्तित्वेन न युक्तिविरुद्धत्वं दोष इति - तन्न; ईश्वरीयत्वेन सर्वत्र तदापत्तेर्विचारलोपापत्तेः । मिथ्या- भूतस्य तु युक्तिविरुद्धस्य त्वयापि स्वीकारात् । अविद्याया मिथ्यात्वे स्वीकृते दोषानवकाशः । वस्तुतोऽनवयवस्यापि परिणामित्वमव्याहतम् । ब्रह्मणस्तु श्रुतिविरोधान्न तत् । नच - मृदादिसावयवविलक्षणपरिणामि- स्वीकारे दृष्टानुसारिकल्पनावश्यकत्वे विकारि कारणं विनैव कार्य कल्प्य- तामिति - वाच्यम्; यावत्संभवं दृष्टानुसारेण कल्पनात् । अन्यथा तवा- प्यतीन्द्रियविकारिकल्पने दृष्टविरोधात् । न चैवमपि सत्यं तदस्त्विति- वाच्यम् ; दृश्यत्वादिना श्रुत्यादिसिद्धज्ञाननाश्यत्वादिना च तस्य मिथ्या- त्वात् । यदपि मृदाद्यवस्थचैतन्यस्य घटायुपादानत्वे नोक्तसूत्रं प्रमाणम् ; किंतु तस्य निमित्तत्व इति तदपि न ; 'तदभिध्यानात् ' ' सोऽ- कामयत बहु स्या'मिति सर्वकार्यात्मकतया स्वोत्पत्त्यभिधानात्, ‘य आकाशमन्तरो यमयती ' त्यादिलिङ्गाच, चेतनानधिष्ठितादचेत- नात्कार्यासंभवेन कार्यमात्रं प्रति चेतने निमित्तत्वस्यावश्यं वाच्यत्वेन विनिगमकाभावात्सत्तादात्म्यप्रत्ययस्य कार्यमात्रे दर्शनाच्चोपादानत्वस्या- १