पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथम: - विवर्ताधिष्ठानत्वाभावात् । न चोपादानापेक्षस्य विवर्तस्य तात्विकातिरिक्तोपादानकल्पनवदविद्यादेराश्रयसापेक्षस्य ब्रह्मा- तिरिक्तमतात्विक मधिकरणं कल्प्यं स्यादिति – वाच्यम्; ब्रह्मण एव विकारित्वेऽनित्यत्वादिप्रसक्तिवत् ब्रह्मण एवाधिष्ठानत्वे बाघकाभावेन द्वितीयस्याधिकरणस्याकल्पनात् । न चासत्यस्य सत्यरूपान्तरापत्तिलक्षणपरिणाम्यनपेक्षत्वेन परिणामित्वेनापि नाविद्याकल्प नमिति – वाच्यम्; परिणामस्य परिणामिसत्ता- · समानसत्ताकत्वनियमेनासत्यत्वस्यैवाभावात् । नच - घटादौ स्वसमानसत्ताकोपादानकत्वदर्शनेन प्रपश्चेऽपि तादृशोपादान- कल्पने घटादे: स्वाधिकसत्ताकोपादानानपेक्षत्ववत् वियदादेरपि ब्रह्मानुपादानकत्वं स्यादिति- वाच्यम्; 'तदभिध्यानादेव तु तल्लिङ्गात्स' इत्यनेन न्यायेन घटादेरपि मृदवस्थचैतन्योपादान- कतया तादृशोपादानानपेक्षत्वासिद्धेः । अत एव – रूप्येऽपि स्वसमानसत्ताकस्य निमित्तस्यापि कल्पनापत्तिरिति-निरस्तम् ; निमित्तमात्रे वा इयं कल्पना, विशेषे वा । नाद्यः; अधिष्ठान- रूपनिमित्तस्य सर्वत्राधिकसत्ताकत्वात् । द्वितीये तूत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तेः । नच – त्रिगुणात्मकं प्रधा- नमुपादानमिति – वाच्यम्; तस्यासत्यत्वेऽविद्यानतिरेकात् । - 4 - दृष्टानुसारित्वेनाविद्या रूपविकारिसहकृतमेव ब्रह्म प्रपश्चं जनयतीति कल्प्यत इति भावः । सत्यरूपान्तरापत्तिलक्षणेति । सत्यसंसृष्टा सत्य- स्वरूपेत्यर्थः । नाविद्याकल्पनमिति । ब्रह्मण एव परिणामित्व- संभवादिति शेषः । अभावात् - विरोधात | मृदवस्थेति । 'सन् घट' इत्यादिधिया सद्ब्रह्मोपादानकत्वं 'मृद्धट' इत्यादिविधयाऽ'न्वय- - 1 धिया - ग.