पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अज्ञान–अर्थापत्त्युपपत्तिः 3 , सादित्वेनानादिभ्रमपरम्परानुपादानत्वाच्च । नच ब्रह्मै- वोपादानम्; तस्यापरिणामित्वात् । नच विवर्ताधिष्ठानत्वेन शुक्तथादेरिवोपादानत्वम्; अविद्यामन्तरेणातात्त्विकान्यथाभाव- लक्षणस्य विवर्तस्यैवासंभवात्, शुक्तयादेरधिष्ठानावच्छेदकतया व्यापारोत्पत्त्या पश्चात्तद्रमो मन परिणामोऽस्त्वित्यपास्तम्; दोषसम- वधानोत्तरं भ्रमाविलम्बात्, उक्तव्यापारकल्पने गौरवात् । सादित्वेनेति । प्रवाहरूपेणानादिभ्रमपरम्परायां न मन उपादानम् ; मनोभ्रमे उपादान- मनाद्यवश्यं वाच्यम्, अन्यथा तत्राप्युपादानापेक्षायामनवस्था गौरवं च । तथाच तदेव मनसीवाकाशादावप्युपादानम् । दृष्टिसृष्टिपक्षे तु मनस उपादानत्वेऽपि विचित्रकार्ये विचित्रज्ञा' नमप्युपादानम्; कारण - वैचित्र्यं विना कार्ये तदसंभवात् कारणान्तरे वैचित्र्यस्याप्यज्ञानरूप शक्तिविशेष रूपत्वात् शुक्तिरूप्यादिभ्रमेष्वपि मनआदिसादीनामवि- निगम्यत्वादनाद्यज्ञानमेवोपादानमिति भावः । असंभवादिति । अता- त्त्विकत्वस्य तत्त्वप्रमानिवर्त्यत्वव्याप्यत्वेन रूप्यादौ ग्रहादुक्तनिवर्त्य त्वस्य च प्रपञ्चे साक्षात्कल्पने गौरवस्योक्तत्वेन तत्त्वधीनाश्यतया श्रुत्यनुभवादिसिद्धस्याज्ञानस्य नाशद्वारैव तत्कल्पनीयम् । तथाचा- ज्ञानस्यानुपादानत्वे तन्नाशोऽपि प्रपञ्चनाशे हेतुः कल्प्यः, उपादानत्वे तु क्ऌप्स इत्युपादानत्वमावश्यकम् । किंच ब्रह्मणो मिथ्याभूतोऽन्यथा भावो विवर्तः । नच ब्रह्मान्यथा भवतीति तद्गताविद्याया अन्यथा- भवनं वाच्यम्, नच यस्य कारणस्य विषमसत्ताकं यत्कार्यं तत्तस्य विवर्त इति लक्षणात् विनाप्यविद्यां ब्रह्मणि विवर्तो जायतामिति - वाच्यम्; विकारिणमुपादानं विना कार्यस्यादृष्टत्वात् । न हि विकारि मृदाद्यनुपादाय घटादिकार्यजननाय कश्चित्प्रवर्तते । तथाच कल्पनाया — 1 विचित्राज्ञा-ग. 3 विषमसत्ता कयत्कार्य -क. परिच्छेदः] , 2 कारण-ग. 3