सव्याख्यायामद्वेसिद्धौ प्रकाशमानत्ववद्रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेऽप्युक्ताकारेणा- विद्यावशादप्रकाशमानत्वोपपत्तरुक्तत्वात् || भ्रमस्य सोपादानत्वान्यथानुपपत्तिरप्यविद्यायां प्रमाणम् । न चान्तःकरणमुपादानम् अन्तःकरणस्य ज्ञानजनने प्रमाण- व्यापारसापेक्षत्वेन प्रमाणाविषये शुक्तिरूप्यादौ ज्ञानाजनक- रूपान्तरेण — अविद्योपहितरूपेण । उक्ताकारेण – अनवच्छिन्नानन्द - रूपशुद्धस्वरूपेण । शुद्धरूपमिदानीं न भातीति भावः । अथवा - रूपान्तरेण -- शुद्धचैतन्यरूपेण । उक्ताकारेण–पूर्णानन्दरूपेण । शुद्धस्योपहितधीविषयत्वेऽप्युक्तरूपयोराविद्यकभेदान्न पूर्णानन्दस्य तद्वि- षयत्वामति भावः । वस्तुत उपहितभाने शुद्धभाननियमेऽपि चरम- वृत्तेरेव विरोधित्वात्प्रकाशमानेऽपि चन्द्रादिस्वरूप इवात्मन्यविद्या न विरुद्धेति ध्येयम् || 2 [प्रथमः -- प्रमाणव्यापारसापेक्षत्वेन - विषयगतप्रमाणव्यापारसापेक्षत्वेन । प्रमाणाविषये – प्रमाणव्यापारशून्ये । तथाच शुक्तयादौ चक्षुरादि- प्रमाणव्यापारस्य सम्प्रयोगादे : सत्त्वेऽपि रूप्यादौ तदुत्पत्तिकालीनात- ज्ज्ञानात्पूर्व तदसत्त्वात्तज्ज्ञानासंभवः । न च - सम्प्रयोगस्येव दोष- स्यापि चक्षुरादिव्यापारत्वमिति – वाच्यम् ; दोषस्य चक्षुरादिजन्यस्य रूप्यचाक्षुषमात्रे वक्तुमशक्यत्वात्, चक्षुराद्यजन्यदोषेणापि रूप्यचाक्षुष- भ्रमत्वोत्पत्ते : ' । ' अथ - मास्तु दोषो व्यापार तथापि चाक्षुषादि- भ्रमजनने मनसश्चक्षुरादिप्रमाणव्यापारो न सहकारी; किंतु दोष इति- चेन्न; दोषो मनः शुक्तयादिकं वा भ्रमपरिणामीत्यत्र विनिगमकाभावा- दतिरिक्ताज्ञानस्य परिणामित्वेन कल्पनौचित्यात्, दोषादीनामनुच्छेदे भ्रमबाघासंभवाच्च । एतेन – दोषाज्जाते' रूप्यादौ चक्षुरादिप्रमाण- 3 4 - 2 संयोगांदः–ग. 3 भ्रमोत्पत्ते - क. 4 अथवा-ख. 1 तथा - ख. 5 ज्ज्ञायते - क. ख. .
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९७०
दिखावट