पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्या अद्वैतसिद्धिः तृतीय सम्पुटम् अद्वैत सिद्धिः अथाज्ञानवादे अर्थापत्युपपत्तिः जीवस्यान वच्छिन्नब्रह्मानन्दाप्रकाशान्यथानुपपत्तिश्च तंत्र मानम् | न च जीवस्य ब्रह्मभेदेनैव तादृगप्रकाशोपपत्तिः; जीवब्रह्म- भेदस्याग्रे निरसिष्यमाणत्वात् । न चानवच्छिभानन्दस्यापि प्रका- शमान प्रत्ययात्रत्वेनाप्रकाशमानत्वानुपपत्तिः; शरीरप्रतियोगिक- स्यात्मनि स्वरूपभेदस्यात्माकारेण प्रकाशमानत्वेऽपि भेदाकारेणा- गुरुचन्द्रिका अथाज्ञानवादे अर्थापत्युपपत्तिः आत्माकारेण – आत्मत्वेन । भेदाकारेण – भेदत्वेन । -