पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञान-तत्प्रतीत्युपपत्तिः 7 कदाचिदविद्याया अप्रतीत्यापत्तिः, इष्टापत्तेः, समाधौ तथा भ्युपगमात् । न चाविद्यावृत्तेर्दोषजन्यत्वादत्र कथमविद्यावृत्तिः १ अविद्याया एव दोषत्वात् । न च वृत्तेरपि वृत्त्यन्तरप्रतिबिम्बित- चिद्भास्यत्वेऽनवस्था | स्वस्या एव स्वभानोपाधित्वात् । ननु – प्रमाणागम्यायामविद्यायां प्रमाणोपन्यासवैयर्थ्यम्, न च - अविद्याया एवेति । भ्रमत्वावच्छिन्नेऽविद्यायाः परिणामितया हेतुत्वाद- विद्यारूपसाधारणदोषजत्वमक्षतम् असाधारणदोषजत्वं ( तु) शुक्ति- रूप्यादिभ्रमरूपायामविद्यावृत्तावेव; अमविषयहे तोर साधारणदोषस्यैव भ्रम- हेतुत्वात् । न ह्यविद्यासुखादिकमसाधारणदोषजम् येन तदाकारा वृत्तिस्तथा स्यात् । अथवा विषयविषया अविद्यादे: स्वाकाराविद्यावृत्तौ हेतुत्वस्वीकारात्स्वकालीनवृत्तित्वेनाविद्याद्यनादिविषयजन्यत्वात् सुखादि- कालीनवृत्तित्वेनापि सुखादिजन्यत्वस्य स्वीकारादविद्यासुखाद्या काराऽ- विद्यावृत्तिरप्यसाधारणदोषजा । व्यवहारकाले च न तदधिष्ठानज्ञानमिति न सा बाध्यते । न चाविद्यावृत्तिर्मनोवृत्तिविषयेऽपि स्यादिति वाच्यम्; प्रातीतिकत्वोपहितविषयकाविद्यावृत्तौ प्रातीतिकनिष्ठविषयतया ज्ञानस्य स्मरणरूपाविद्यावृत्तावुद्बोधकादेश्च हेतुत्वात्तादृश विशेषहेतुद्वयाभावात् तत्र तदापत्त्यसंभवात् । स्वस्या एवेति । अविद्यादेः समाध्यादिकाले मानवारणाय संस्काराय च तत्र वृत्तिरावश्यकी । तस्यां संस्कारस्तु तयैव; स्वस्वविषयकसंस्कारे तस्याहेतुत्वादिति, तस्यां सा नावश्य- कीति भावः । प्रमाणोपनीतेत्यादि । प्रमाणवृत्तिविषयीभूतमेवासद्व्या- वृत्तिविशिष्टाज्ञानं साक्षिणा गृह्यते न तु तदविषयीभूतमित्यर्थः । पक्ष- विशेषान्तर्भावेनैवानुमितिः, अन्यथा साध्यपक्षयोः संसर्गाज्ञानं तया न निवर्तेत । तथाचासद्यावृत्तिविशिष्टरूपेण प्रमाणगम्यत्वेऽपि सविषय- कत्वादिरूपेण साक्षिमात्रवेद्यमज्ञानमिति सिद्धान्तो न विरुध्यत 1 सुखादिहेतुजन्यत्वस्य - ग. 2 स्वस्वविषय विषयसंस्कारे - ख. स्वस्व विषयसंस्कारे - क. , , -