पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीयमिथ्यात्वनिरूपणम् --- आधाराधेयभावस्य प्रत्यक्षसिद्धत्वेन घटस्यावृत्तित्वशङ्कानु- दयात् उक्तयुक्तेश्च न घटादेरत्यन्ताभावसामानाधिकरण्यम् । एवं संयोगतदभावयोर्नैकाधिकरण्यम् । 'अग्रे वृक्षः कषिप- संयोगी मूले न' इति प्रतीतेरग्रमूलयोरेव संयोगतदभा- ववत्तयोपपत्तेः तदा सन्मात्रनिष्ठात्यन्ताभावप्रतियोगित्वमेव भयधर्माधिकरणत्वाप्रसिद्धेः वक्ष्यमाणमिथ्यात्वाभावादित्यास्तां विस्तरः | ननु घटस्य स्वात्यन्ताभाववदवृत्तित्व रूपो विरोधोऽवृत्तित्वेप्युपपद्यत इति स्वसंयोगिनि स्वात्यन्ताभावसत्त्वे किं बाधकं तत्राह - - आधारेति । ननु घटादिसंयोगी घटाद्यभाववान् तत्समवायाद्यभावात् घटाद्यना- धारवदित्यत आह—उक्तेति । अनुकूलतर्काभावात् कपालदृष्टा- न्तेन तथैव प्रतियोगिसम्बन्धित्वादिहेतुना ध्वंसादिसिद्धपापत्तेः तद्व्य- तिरेकेण कार्यानुपपत्तेरभावात् एकसम्बन्धवत्यप्यपरसम्बन्धाभावस्यैव प्रतिबन्धकाभावतया प्रयोजकत्वादित्यर्थः । अग्रमूलयोरिति । मिथ- श्चौपाधिकभेदवतोः तदवच्छिन्नवृक्षयोर्वेति शेषः । तदेति । इति परेणोच्यत इत्यादिः । सन्मात्रनिष्ठेति । स्वैप्रकारकधीविशेष्यनिष्ठ- सत्त्वव्यापकेत्यर्थः । तेन न पूर्वोक्ते प्रपञ्चालीकत्वापत्तिसिद्धसाधने । अधिष्ठानमेव तत्र प्रतीयमानाभाव इति पक्षेsपि केवलस्य सतोऽ- भावत्वावशिष्टेन सता सम्बन्धसत्त्वात् व्यापकत्वमुपपन्नम् । न च तत्पक्षे अधिष्ठानेऽभावाधारत्वप्रत्ययानुपपत्तिः, विशिष्टकेवलयोराधारा- धेयत्वाभावात् अन्यथा तद्धटो द्रव्यमितिवत् तत्र द्रव्यमित्य पि धीस्स्यादिीत वाच्यम् ; अन्यत्र तदस्वीकारेऽपि प्रतीत्यनुरोधेन प्रकृते तत्स्वीकारात्, घटाभावे घटों नास्तीत्यादाविव कल्पिताधा रत्वे बाघकाभावात् । किंचाभावप्रत्यये भावस्य सम्बन्धमात्रं नियमेन भासते आधारत्वं तु सति सम्भवे, यथा पृथिव्यां गन्धाभावो 1 भाववद्वृत्तित्व. 77