पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

76 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः इव भाति घटत्वेन पटो नास्तीत्यादिशब्दात् यद्यपि नामार्थस्य घटत्वादेरत्यन्ताभावो न भाति, प्रतियोगिनः प्रथमान्तानुपस्थाप्य- वात् । अनुयोगिपटादेः सप्तम्यन्तानुपस्थाप्यत्वाच्च । तथापि तृती- यार्थस्य साहित्यरूपवैशिष्ठ्यस्य स भाति । अथवा तत्र घटत्वा- भावाद्यन्यो व्यधिकरणघटत्वपटत्वाद्युभयावच्छिन्नप्रतियोगिताकत्वेन परा- भ्युपगताभाव एव भाति । अतएव घटत्वपटत्वाद्युभयावाच्छ- नबत्त्वेन ज्ञाते नोक्ताभावधीः, तत्प्रतियोगितायाः मिथोव्यधिक रणघटत्वपटत्वादिरूपत्वात् । प्रतियोग्यंशे प्रकारस्यैव संसर्गत्व- मित्युक्तमिति मम न व्याहतिः । अतव तादृशाभावांशे प्रका- रतावच्छेदकतयोक्तधर्मद्वयमवश्यं भातीति स्वीक्रियते । तथाच तत्प्र- तियोगितायाः उक्तधर्मद्वयरूपत्वात् प्रतियोग्यंशे प्रकारस्यैव अभा- बांशे प्रतियोगिसंसर्गत्वमिति नियमाव्याघातः । न च घटत्वस्य पटासम्बन्धित्वात् तद्द्घाटतसम्बन्धेनाभावस्य पटीयत्वासम्भव इति वाच्यम् ; घटत्वनिष्ठं यत्पटत्वनिष्ठप्रतियोगितात्वं तन्निरूपकत्वसम्बन्धेन अभावांशे पटस्य विशेषणत्वेन भानस्वीकारात् । संयोगकालीनस- मवायेन घटादेः रूपवत्त्वस्येव उक्तसम्बन्धेन अभावे पटीयत्वस्य सम्भवात् उक्तप्रतियोगित्वाश्रयविशिष्टस्य पटस्योक्ताभावाविरोधित्वेऽ- पि न क्षति, उक्तस्थले प्रतियोग्यभावयोः विरोधस्य परणाप्य - स्वीकारात् । उक्तस्थले घटत्वपटत्वोभयत्रभूतलनिष्ठाधारतावच्छेदकत्वं नास्तीति तु न सम्भवति, उभयत्वविशिष्टबोधकपदाभावात् । एवंच संयोगेन रूपं नास्तीत्यादावपि संयोगरूपत्वादिमत्प्रतियोगि कतया तादृशाभाव एव भातीति न कथमपि प्रतियोगितायाः अवच्छिन्नता । न चोक्ताभावमादाय सिद्धसाधनम्, स्वावच्छिन्नप्र- कारकषीविशेष्यसन्मात्रवृत्त्यत्यन्ता भावप्रतियोगितात्वपर्याप्तघधिकरणोक्ते- 1 मित्युक्तनियमो न व्याहतः