पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीयमिथ्यात्वनिरूपणम् 75 घटसामान्याभाव एव तत्समनियतत्वादिति तद्धीः कथं घटसंयु- तादौ प्रतियोगिता, समवायस्य न सम्बन्धः; किन्तु स्वाश्रयसमवे- तत्वमित्युक्तौ तद्विषयतायाः विरोधितावच्छेदकत्वनिवेशे गौरवमिति वाच्यम्; लाघवेन प्रतियोगितामात्रस्य अभावविरोधित्वे स्थिते समबायप्रतियोगिघटत्वेन भूतलादिनिष्ठाभावाविरोधित्वात्, उक्तगौर- वस्य प्रामाणिकत्वात् । अतएव संयोगेन भूतले घटो नास्ती- त्यादावपि संयोगादेः घटादौ स्वाश्रयसंयुक्तत्वादिकमेव सम्बन्धः । समवायेन भूतले घटो नास्तीत्यादौ समवेतघटादिकं वा प्रतियोगि- तया भाति, तस्य केवलघटाद्यन्यत्वेन भूतलादौ तदभावसम्भ- वात् भूतले समवेतत्वेन घटो नास्तीत्यनुभवात् । अतएव सम- वायवत् घटाभावस्येव नीलघटाभावस्यापि धीः समवायेन घट- वदिति धीविरोधिन्यस्तु इत्याद्यपास्तम् । तव प्रतियोगितावच्छेदक- तया प्रतिबन्धकतावच्छेदके निवेशितयोरेव मम प्रकारतावच्छेदक- तया निवेशात् । अतएव घटसंयुक्ते घटसमवायाभावस्याप्यसम्भवः, तत्र घटसमवायस्य कालिक सम्बन्ध नाधिकरणत्वसत्त्वात् । अथ कालि कसम्बन्धेन घटसमवायाभाव एव तद्विरोधी तर्हि संयोगेन घटाभाव एव संयोगेन घटाधिकरणत्वविरोधीत्येव युक्तमित्यपास्तम् । घटसंयुक्ते समवायेन घटाभावस्य त्वया स्वीकारेण तस्यैव मया घटसमबायाभावत्वस्वीकारात् समवायसम्बन्धावच्छिन्नघटाधिकरणत्व- स्यैव मया घटसमवायाभावविरोधित्वस्वी कारात् । अथवा समवा- येन घटो नास्तीत्यादौ घटसमवायादिनिष्ठप्रतियोगितैव परम्परया घटादिंगततया भासते ' शिखी विनष्टः' इत्यादिवत् । अतो घटादेः प्रतियोगितानुभवो न विरुद्धः साक्षात्सम्बन्धेन बक्ष्यमाणप्रतियोगि- ताया लक्षणत्वान्न दोषः । संयोगेन रूपं नास्तीत्यादौ रूपादो संयोगाद्यभावः घटत्वेन पटो नास्तीत्यादौ पटादौ घटत्वायभाव · .