पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

74 अद्वैतसिद्धिव्याख्यां गुरुचन्द्रिकायां [ प्रथमः कत्वे घटसामान्याभावतद्विरोधित्वयोः पूर्वोक्तयोर्मानाभाव इति वाच्यम् ; घटो नास्तीति बुद्धेरुक्तरत्या यप्रतियोगिताविषयकत्वानुपपत्त्या समवायविशिष्टघटा दिसामान्याभावी- अतिरिक्तप्रतियोगित्वावश्यकत्वात्, अतिरिक्ताभावानभ्युपगमेऽपि क्षतिविरहात्, ऊक्तबुद्धिसत्वे घटवदि- त्यादिबुद्धयनुत्पादात्, उक्तबुद्धेर्विरोधित्वस्यानुभाविकत्वात्, सम्ब- न्धसामान्येन घटाद्यभावस्य त्वयाऽप्यनीकारात्, घटसम्बन्धसामा- न्याभावस्यैव मम घटसामांन्याभावत्वात् । एकज्ञानविषयत्वव्य- भिचारादिस्तु न सम्बन्ध सम्बन्धो वा न भिन्नकालीनयोः । किंच समवायादिना घटविशिष्टबुद्धौ घटसमवायाभावधीविरोधित्वं त्वयाऽपि वाच्यम्; तदनुभवात् । न च समवायादिना घटसा- मान्याभावांवच्छेदकत्वेन गृहीततद्धीरेव तद्विरोधिर्नाति वाच्यम्; गौरवात् । तथाच सम्बन्धावच्छिन्नप्रतियोगितावादिनस्तव मते तदन्त- र्भावेनैव विरोधित्वात् घटसमवायित्वाद्यवच्छिन्नत्वस्वरूपसंम्बन्धावच्छि- न्नत्वयोः विशेषणविशेष्यत्वाविनिगम्यत्वात् तत्र विरोधिताद्वयं तद- वच्छेदकगुरुत्वं च आवश्यकम् । मन्मते च तत्र घटसमवाया - भावधत्वेिनैकैव विरोधिता । तव समवायादिसम्बन्धावच्छिन्नघटत्वा- द्यवच्छिन्नप्रतियोगितान्तर्भावेन उक्तरीत्या विरोधिताद्वयं अवच्छेदक- गौरवं च । मम तु तत्र समवायादिविशिष्टघटाभावधीत्वेन एकैव सेति महदेव लाघवम् । न च तवापि समवायवत अंशे घटत्वस्य एकत्र द्वयमिति रीत्या समवायघटत्वयोश्च प्रकारतामादाय अन्ये अपि ते वाच्ये इति वाच्यम्; घटत्वांशे निर्धर्मितावच्छेद कज्ञानस्यैव विरो- घिताया आवयोस्सम्मतृत्वात् । घटो न समवायीति कालेऽपि प्रकृतविरोधिधी सम्पत्तये एकत्र द्वयमिति रीत्या प्रकारीभवद्भयां सम- वायघटत्वाभ्यां अवच्छिन्नाया एव अभावांशे प्रकारताया विरोधि- तावच्छेदकत्वस्वीकारात् । न च तथाऽपि समवायविशिष्टघटाभावो