पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीयमिथ्यात्वनिरूपणम् घटसमवायमात्रविषयतया प्रतीतेरुपपत्तेः गितावच्छिन्नत्वपक्षेऽपि उक्तापत्तेदुर्वारत्वात्, नीलघटत्वावच्छिन्नप्रति- योगिताव्यक्तेरपि घटत्वावच्छिन्नत्वात् प्रतियोगितायाः अवच्छेदक- त्वाभिमतघटत्वादिस्वरूपत्वाभ्युपगमात्, प्रतियोग्यंशे प्रकारीभवत एव अभावांशे सम्बन्धतया भानात् । प्रतीतेरुपपत्तेरिति । घटसंयु. तादौ समवायेन घटो नास्तीत्यादिप्रतीत्त्युपपत्तेरित्यर्थः । न च एवं घटादेः प्रतियोगित्वानुभवाविरोधः, समवायविशिष्टघटादिप्रतियो- गित्वावगाहनात् तादृशप्रतियोगिताकोपि घटसमवायाभाव एव तत्समनि- यतत्वात् । न तु घटसामान्याभाव इत्याशयेन घटसमवायाभाव इत्युक्तम् । न चैवमपि वक्ष्यमाणलक्षणस्य तादृशाभावमादाय घटादौ सिद्धसाधनम्, यद्धर्मरूपप्रतियोगिताका भावत्वेन सत्त्वव्यापकत्वं तद्धर्म- वत्त्वस्य वाच्यत्वात् घटादिसमवायिन्यपि संयोगवत् घटाद्यभावसत्त्वादिति वाच्यम् ; संत्त्वव्यापकतावच्छेदकं यद्धर्मपर्याप्त प्रतियोगिता काभावत्वं' तद्धर्मवत्त्वे वक्ष्यमाणतात्पर्यात् तादृशाभावप्रतियोगितात्वस्य समवा- यादिघटत्वयोरेव पर्याप्तत्वात् । अन्यथा नीलघटाद्यभावमादाय सिद्ध- साधनाद्यापत्तेः, विशिष्ट स्यातिरिक्तत्वात् यथाश्रुतस्याप्यदोषत्वाच्च । अथवा ननु सम्बन्धावच्छिन्नत्वस्य विरोधितावच्छेदकाप्रवेशे संयो- गेन घटाभाववदित्यादिबुद्धेरपि समवायेन घटवदित्यादिबुद्धि विरोधि- त्वापत्तिः घटाभावविषयकत्वाविशेषादत आह - घटसमवायेत्यादि । घटः समवायः आदिना प्रतियोगिता अभावश्चेति चतुष्टयमात्र- विषयतया समवाय विशिष्टघटत्वावच्छिन्ना प्रतियोगिता विशेषसम्ब न्धावच्छिन्ना च या प्रकारता तन्निरूपिताभावप्रकारताकत्वेन प्रतीतेः समवायेन घटाभाववदित्यादिप्रतीतेः उपपत्तेः उक्तषीविरोधित्वो- पपत्तेः । न चैवं घटसमवायाद्यभावस्य तद्विरोधित्वस्य चावश्य- 1 प्रतियोगितावत्त्वं. -- , . 73