पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः घटा- समवायसम्बन्धेन घटाभावसवे मानाभावात् लाघवेन त्यन्ताभावत्वेनैव घटसामानाधिकरण्यविरोधित्वकल्पनात् सम्ब- न्धविशेषप्रवेशे च गौरवात् । 72 लाघवेन सम्बन्धाघटितावच्छेदकत्व लाघवेन । घटसामानाधिकर- व्यविरोधित्वेति । भूतलं घटवदित्याकारिका भूतलत्वादौ या । घटसामानाधिकरण्यधीः तत्प्रतिबन्धकतायां भूतलादिविशेष्यकधीनि- ष्ठायां प्रकारतया अवच्छेदकेत्यर्थः । गौरवात् सम्बन्धानां प्रति- योगितावच्छेदकत्वे गोरवात् । द्वितीये व्याख्याने घटत्वसंयोगाद्यव- च्छिन्नप्रतियोगिता काभावस्य प्रतिबन्धकतावच्छेदकनिवेशे घटत्वसं- योगाद्यवच्छिन्नत्वयोः बिशेषणविशेष्यत्वस्य अविनिगम्यत्वेन प्रति- बम्बकताभेदे गौरवात् । न च प्रतियोग्यंशे भासमानस्यैव प्रति- योगितावच्छेदकतया भानात् प्रतियोगितांशे घटत्वाद्यवच्छिन्नत्ववि- षयता घटाभाववद्भूतलमिति धीनिष्ठप्रतिबन्धकतावच्छेदकोट न निवेश्यते, किन्तु अभावांशे घटत्वाद्यवाच्छिन्नप्रकारतैवेति वाच्यम् : व्यधिकरणधर्मावच्छिन्नाभाववादिनामस्माकं तदसम्भवात् । तत्सम्भवे वा सम्बन्धांशेऽपि तदापत्त्या घटत्वसंयोगाद्युभयधर्मावच्छिन्नप्रकारता- निवेशस्यैवौचित्यात् । अथैवं घटत्वादिनाऽपि प्रतियोगिता नावाच्छ- येतेति अनवच्छिन्नैव सा स्यादिति चेत्, स्यादेव यदि नानु- भवो बाधकः, अभावांशे प्रतियोगितासम्बन्धघटत्वमात्राभ्यां प्रकार- ताया एव प्रतिबन्धकतावच्छेदके निवेशसम्भवात् । न च नील- घटाभावस्यापि घटीयत्वात् घटवत्यपि घटो नास्तीति धीः स्यादिति वाच्यम् ; घटसामान्याभावीय प्रतियोगिताव्यक्तेरेव घटत्वमात्रावच्छिन्नं प्रति संसर्गत्वान्नीलघटाभावे तयक्तयसम्भवात् । अन्यथा प्रतियो- " 1 वच्छेदक. 2 विनिगम्यत्वेन