पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः ] 71 अमु- तुल्यत्वादिहाकाशो नास्तीति प्रत्यक्षप्रतीत्यसम्भवात्, माने च अनुकूलतर्काभावात्, सामान्यतो दृष्टमात्रेण ध्वंस- प्रागभावप्रतियोगित्वस्यापि सिद्धिप्रसङ्गात्तव्यतिरेकेण कस्यचित् कार्यस्यानुपपत्तेरभावाच्च । एवं संयोगसम्बन्धेन घटवति भूतले द्वितीयमिथ्यात्वनिरूपणम् मिथ्यात्वघटकाभावस्य तात्त्विकत्वपक्ष इवातात्त्विकत्वपक्षेऽपि अनवच्छि- नत्वस्वीकारात् । न चैवमवच्छिन्नत्वसामान्याभाव एव निवेश्यतां लाघवादिति वाच्यम् ; विशेषाभावकूटान्यस्य तस्यानभ्युपगमात्, सामान्याभावत्वेन निवेश्य' स्वरूपाणामेव प्रदर्शितत्वाञ्च | अतीन्द्रियस्य प्रतिबन्धकस्याभावः कार्यान्यथानुपपत्त्या उच्यते । प्रकृते तु न सत्याह- तव्यतिरेकेणेति । लाघवेनेति । सम्बन्धरूपावच्छेद कभेदेनाभावभेदा- कल्पनलाघवेनेत्यर्थः । विरोधित्वेति | सहानवस्थानेत्यर्थः । तथाचा- त्यन्ताभावत्वेनेति सहार्थे तृतीया । एवंच घटात्यन्ताभावत्वेन सह घटसामानाधिकरण्यस्य एकत्राभावेन प्रतियोगिस्वरूपमात्रेण अत्यन्ता- भावस्य विरोधित्वमिति भावः । घटपटोभयं भूतले नास्तीत्यादौ नोक्तोभयस्याभावप्रतियोगितंया धीः घटादिप्रत्येकरूपस्योभयस्योक्तषीवि- षयाभावविरोधित्वात् । किन्तुक्तोभयत्वस्य भूतलादिनिष्ठाधिकरणतावच्छेद- कत्वाभावधीः, अतएव उभवादिपदयोगे एकजातीयव्युत्पत्त्या घटत्व- पटत्वोभयं नास्तत्यिादावपि घटत्वपटत्वोभयत्वे घटादिनिष्ठाभारताव- च्छेदकत्वाभावधी, संयोगसमवायोभयसम्बन्धेन मूतले घटो नास्ती- त्यादौ संयुक्तत्वसमवेतत्वोभयवद्घटत्वादौ घटसंयोगसमवायोभयत्वादौ वा भूतलादिनिष्ठाघारतावच्छेदकत्वाभावधीः घटादौ मूतलादिनिष्ठसंयो- गसमवायोभयप्रतियोगिकत्वाभावधर्वा । अतएवोक्तस्थले भासमानाभाव- मादाय वक्ष्यमाणामिथ्यात्वस्य घटत्वादौ न सिद्धसाधनम् । अथवा 1 निवेशस्य, .