पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः वच्छेदकविशेषश्च । न हि सम्बन्धविशेषमन्तरेण भूतले घटा- धिकरणता प्रतीयते । अवच्छेदकविशेषमन्तरेण वा वृक्षे कपि- संयोगाधिकरणता । तथाच येन सम्बन्धविशेषेण येन चाव- च्छेदकविशेषेण यदधिकरणताप्रतीतिर्यत्र भवितुमर्हति तेनैव सम्बन्धविशेषेण तेनैव चावच्छेदक विशेषेण तदधिकरणकात्य- न्ताभावप्रतियोगित्वं तस्य मिथ्यात्वमिति पर्यवसिते क्व सिद्ध- साधनम् । यदि पुनः ध्वंसप्रागभावप्रतियोगित्वमिवात्यन्ता- भावप्रतियोगित्वमाकाशादौ न स्यात् । साधकमानाभावस्य 70 एवंच यावत्पदं व्यर्थमिति भावः । तद्वत्तया धीस्तच्छ्रन्येऽपि भवतीति सिद्धसाधनम् । व्याप्यवृत्त्यधिकरणताधीश्चावच्छेदकं विनैवेत्यत आह - तथाचेति । यत्रेत्यधिकरणतान्वाय । तथाच यन्निष्ठा यत्सम्बन्धाव- च्छिन्नयद्वता यदवच्छिन्नतया प्रत्येतुमर्हा कदाचित् केनचित् प्रती- यमाना इत्यर्थः । तेनैव सम्बन्धविशेषेणेति - तदन्यसम्बन्धेन अनव- च्छिन्नप्रतियोगिताकेत्यर्थः । तत्सम्बन्धावच्छिन्न प्रतियोगिताकेत्युक्तौ तत्तदितरोभयसम्बन्धावच्छिन्नप्रतियोगिताकाभावमादाय सिद्धसाधनम् । अंतस्तन्नोक्तम् । तेनैव चावच्छेदकविशेषेणेति--तदन्यावच्छेद- 1 । कानवच्छिन्नेत्यर्थः । अभावान्विते अधिकरणत्वे च तदन्वय | एवंच व्याप्यवृत्तिस्थले तद्वत्तावच्छेदकता भ्रमः प्रसिद्ध एव य द्यदवच्छिन्न तया बद्वताषी: तत्प्रत्येकान्यानवच्छिन्नत्वकूटं निवेश्यम् । तेन मूलाधव- च्छिन्ने अप्राद्यवच्छिन्नाभावमादाय न सिद्धसाधनम् । न च मूलाय- वाच्छन्नस्य अप्राद्यवच्छिन्नत्वेनापि ज्ञानात् तन्मिथ्यात्वलक्षणे अग्राद्य- म्यानवच्छिन्नत्वस्यापि निवेश्यत्वात् बाधः, मूलाद्यवच्छिन्नस्य मूलाधव- च्छिन्नाभावप्रतियोगित्वरूपस्यैव मिथ्यात्वस्य वाच्यत्वादिति वाच्यम्; 1 यतस्तनोतम्.