पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीयमिथ्यात्वनिरूपणम् 69 रूपास वैलक्षण्यस्य शुक्तिरूप्ये प्रपञ्चे च अनङ्गीकारात्। नन्वेवं सति यावत्सदधिकरणात्यन्ताभावप्रतियोगित्वं पर्यवसितम् । तथाच केवलान्वय्यत्यन्ताभावप्रतियोगिषु अवृत्तिषु गगनादिषु तार्किकाणां सिद्धसाधनम् । यदधिकरणं यत्सत् तमिष्ठात्यन्ता- भावप्रतियोगित्वं तस्य मिथ्यात्वमिति विवक्षायां अधिकरण- पदेनावृत्तिनिराकरणेऽपि संयोगसम्बन्धेन समवायसम्बन्धेन वा यत् घटाधिकरणं समवायसम्बन्धेन संयोगसम्बन्धेन वा घटस्य तन्निष्ठात्यन्ताभावप्रतियोगितया सर्वेषु वृत्तिमत्सु दुरुद्धरं सिद्ध- साधनम् | येन सम्बन्धेन यत् यस्याधिकरणं तेन सम्बधेन तनिष्ठात्यन्ताभावप्रतियोगित्वमिति विवक्षायां अव्याप्यवृत्तिषु संयोगादिषु सिद्धसाधनमिति चेन्न; येन रूपेण यदधिकरण- तया यत् प्रतिपनं तेन रूपेण तन्निष्ठात्यन्ताभावप्रतियोगि त्वस्य प्रतिपन्नपदेन सूचितत्वात् । तच रूपं सम्बन्धविशेषोऽ इति विज्ञानवादः । तदुत्तरभूमिरूपे शून्यवादे तु विषयस्तथैव, विज्ञानं तु स्वाकारसहितं मिथ्येति विशेषः । तत्रांत्येतु अबाध्यस्वरूपमेव न स्वीक्रियते कुतः तद्विशेष्यकज्ञानं, आद्ये तु विज्ञानस्य अबाध्यस्य नाळीकप्रकारकज्ञानविशेष्यता, परमार्थालीकयोः एकज्ञानाविषयत्वात् । अत उक्तमतयोरलीकत्वमादायाकाशादौ नार्था- न्तरमिति भावः । यावत्सदिति । स्वानाश्रयनिष्ठाभावप्रतियोगित्वस्य सिद्धत्वात् यावदिति प्रतिपन्नेति देयमेव । अन्यथा आकाशादावत्य- न्तासत्त्वमादाय विज्ञानवादसम्मतमर्था 'न्तरादिति भावः । सिद्धूसा- धनमिति । सामानाधिकरण्येनानुमितेरुद्देश्यत्वे सिद्धसाधनम् । अन्यथा तु प्रपञ्चस्यावृत्तित्वमादायार्थान्तरम् । यदधिकरणं – यस्याधिकरणम् । 3. सम्मतार्था. -