पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

68 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः योगत्वं यद्यपि तुच्छानिर्वाच्ययोस्साधारणम् । तथापि क्वचि दप्युषाधौ सत्त्वेन प्रतीत्य नर्हत्वं अत्यन्तासत्त्वम् । तच्च शुक्ति- रूप्ये प्रपश्ये च बाधात पूर्व नास्त्येवेति न तुच्छत्वापत्तिः । न च बाधात्पूर्व शुक्तिरूप्यं प्रपञ्चो वा सत्त्वेन न प्रतीयते । एतदेव सदर्थकेनोपाधिपदेन सूचितम् । शून्यवादिभिः सदधि- छानक अमानङ्गीकारेण क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनईत्व- एव ते स्ववाक्यार्थाबोधः । तस्मात्तदवच्छिन्नाश्रयताकार ज्ञान कार्यत्वस्य संस्कारदोषविशेषादेश्च विकल्पेन तत्तादात्म्योत्पत्तिनियामकत्वान्नानु- पपंत्तिः । व्यावहारिकरजतत्वेन सन्निकर्षादिविरहेऽपि न क्षतिः । तादात्म्यप्रतीतेः तदंशे स्मृतित्वात् इदं सुरभीति धीवत् । तत्रैका प्रमा वृत्तिः इतरत्र प्रमाभ्रमवृत्त्यवच्छिन्नमेकचैतन्यमिति तु विशेषः । इन्द्रियसंयुक्ततादात्म्यादेः तत्र सन्निकर्षत्वसम्भवाच्च । तस्मान्नापसि- द्धान्तादिकम् । सत्त्वेनाप्रतीयमानत्वं चेदसत्त्वं तदा असञ्च्चत्सत्वेन न प्रतीयेतेत्यध्यासमात्रं पक्षीकृत्य आपादनं न स्यात् आपाद्यापाद- कयोरभेदात् इष्टापत्तेः । अत उक्तं सत्त्वेन प्रतीत्यनर्हत्वमिति । सत्त्वविषयक धीविषयत्वं सत्तादात्म्यतत्त्वान्यतरत्वं वा तदर्हत्वमिति भावः । नन्वेवमपि अत्यन्तासत्त्वापत्तिः कथं निरस्ता ? तत्राह-- एतदेवेति । सत्त्वेन प्रतीयमानत्वमेवेत्यर्थः । सूचितामति । प्रति-, पन्नपदेन स्वप्रकारकधीविशेष्यत्वस्य उपाधिपदार्थे लाभेन स्वप्रकार- कधी विशेष्यताश्रयसद्वृत्त्यत्यन्ताभावप्रतियोगित्वलाभात् प्रपञ्चे सत्त्वेन प्रतीयमानत्वलाभः पर्यवसित इति भावः । शून्यवादिभिः ज्ञानादत्य- न्तभिन्नो योऽर्थः सोऽळकि इति वादिभिः । सदधिष्ठानक अमेति । अबाध्य विशेष्यकाळी कप्रपञ्चप्रकारकज्ञानेत्यर्थः । विज्ञानं सत्यं तदा- कारस्तद्विषयः तद्धर्मत्वात् तद्भिन्नाभिन्नः ततोऽत्यन्तभिन्नस्त्वळीकः । अनिष्टापत्तेः