पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीयमिथ्यात्वनिरूपण॑मूं 67 न च निरुपाख्यत्वमेव तदसत्त्वम्, निरुपाख्यत्वपदेनैव व्याख्या - यमानत्वात् । नाप्यप्रतीयमानत्वमसत्त्वम् असतोऽप्रतीतौ असबैलक्षण्यज्ञानस्यासत्प्रतीतिनिरासस्य असत्पदप्रयोगस्य च अयोगात् । न चापरोक्षतया अप्रतीयमानत्वं तत्, नित्याती- न्द्रियेष्वतिव्याप्तेः, इति चेन्मैवं; सर्वत्र त्रैकालिकनिषेधप्रति- णादीनाम् तादात्म्यमेव सुखादेस्त्वाधारता, अहं सुखीत्यादिप्रतीतेः लौहित्यस्येन्द्रियसन्निकृष्टत्वेन प्रत्यक्षतासंभवात्तदानीमुत्पत्तिस्वीकारस्य निष्प्रयोजनत्वाच्च । आत्मनः कर्तृत्वादिकमध्यस्तं स्फटिकमणेरिव लोहितिमा इति निरासे तात्पर्यं न तु लौहित्यस्य स्वरूपाध्यासे दूरस्थवृक्षयोराच्छादितमिथस्संयुक्तप्रान्तयोः वंशखड्गयोश्च तादृशयोः तादात्म्याध्यासाच्च । न च तत्तत्तादात्म्यं भावरूपं नाध्यस्यते किन्तु भेदा- भाव इति वाच्यं ; प्रकृतेऽपि तत्सम्भवात् इति अहङ्कारटीकावाक्यस्य व्याख्यातत्वात्, स्वप्नादावपि भिन्नत्वेनाज्ञायमानयास्तादात्म्यानुभवाच्च । तत्रैका ज्ञान कार्यत्वं तादात्म्यमित्युक्तौ भेदधीकालेऽपि तादात्म्यषी- स्स्यात् तादात्म्यजातीययोस्तज्जातीयतादात्म्यसंस्कारा दियुक्तौ तु प्रकृते न दोषः । अतएव प्रातात्तिकस्य स्वोपादानाज्ञानेत्याद्ययुक्तं प्रातीतिकयोः पश्चाद्दूरस्थत्वादिदोषयोगात् मिथस्तादात्म्यानुभवात् प्रातीतिकरजतादौ तदनधिष्ठानस्य सन्निहितसदृशव्यावहारिकस्य पश्चा- त्तनदोषात्तादात्म्यानुभवाच्च बुद्धौ सत्यामित्याद्यप्ययुक्तं, आरोपे सती- त्यादिन्यायाद्धे यद्रूपावच्छिन्नयोः तादात्म्यधीः आनुभाविकी तद्रू- पावच्छिन्नयोः तादात्म्यसंस्कारदोषविशेषादिकं तत्र नियामकं न त्वेकाज्ञान कार्यत्वादि तस्मिन् सत्यपि तदभावात् असत्यपि तद्भा- वाच इति सिद्धम् । अतः व्यावहारिकप्रातिभासिकरजतयोरपि तादात्म्यधीस्तथेति तत्रापि तथा नियामकमव्याहतमिति स्फुट 1 तादात्म्यात् सजातीययोस्तज्जतीय संस्कारादिति पाठान्तरम्.