पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः नापसिद्धान्तो नान्यथाख्यात्यापत्तिः न वा ग्रन्थविरोधः इत्य- नवद्यम् । नन्वेवमत्यन्तासवापातः । प्रतिपत्रोपाधौ कालिक- निषेधप्रतियोगित्वं ह्यन्यत्रासत्तेन सम्प्रतिपन्नस्य घटादेः सर्वत्र त्रैकालिकनिषेधप्रतियोगित्वं पर्यवसितम् । अन्यथा तेषां अन्यत्र सत्त्वापातात् । न हि तेषामन्यत्र सत्ता सम्भवतीति त्वदुक्तेश्च । तथाच कथमसद्वैलक्षण्यम् । न हि शशशृङ्गादेरितोऽन्यदसत्त्वम् । 66 पारमार्थिकान्यत्वं अनुपपन्नमित्यर्थाद्बुद्धमित्यर्थः । नान्यथाख्यात्या- पत्तिरिति । व्यावहारिकस्य शुक्तिगतनिषेधप्रतियोगित्वे तत्र तस्यैव प्रसक्तेर्वाच्यतया अन्यथाख्यात्यापत्तिः । यत्तु प्रातीतिकव्यावहारिक- रजतयोः तादात्म्यधीर्न युक्ता तयोरेकस्य अपराज्ञानाकार्यत्वात् प्राती- तिकस्य स्वोपादानाज्ञाननिवर्तकधीविषयेणैव तादात्म्यप्रतीतेश्च । न हि पुरोचर्तितत्त्वाज्ञानेऽपि व्यावहारिकरजतत्वज्ञानात् प्रातिभासिकरजतं मिर्तते, शुक्ल पट इति तु शुक्लपटयोः एकाज्ञानकार्यत्वात् एक- श्राध्यासाच्च । न चैवं घटपटयोरपि तादात्म्यबुद्ध्यापत्तिः, बुद्धौ सत्यां तस्य निमित्तत्वकल्पनात् आरोपे सतीति न्यायात् । व्यावहा रिकरजतस्य च भ्रमस्थले भानानुपपत्तिः, सन्निकर्षादिविरहात् । तस्माद्व्यावहारिकरजतमेव स्वरूपेण निषिध्यते शुक्तावित्येव त्वदा- चार्यवाचामर्थ इत्यपसिद्धान्तादिकं दुर्वारमिति; तत्तुच्छम् । यद्यद- ज्ञानाकार्य तत्तत्तादात्म्यवन्नेति हि न नियमः, रजताज्ञानाकार्ये इमर्थे रजततादात्म्यस्वीकारात् । नापि ययोरेकमपि नापराज्ञानकार्य तयोः न तादात्म्यमिति नियमः; इदंत्वद्रव्यस्त्रादिधर्माणां रजतस्य च मिथोऽज्ञानाकार्यत्वेऽपि तादात्म्यारोपात्, जपाकुसुम लौहित्यस्य स्फटिकस्य च मिथोज्ञानाकार्यत्वेऽपि तादात्म्याध्यासात् । तत्र पूर्व- सिद्धर्मिणो हि धर्मः संसृष्टतयैवाध्यस्यते । संसर्गश्च जातिगु-