पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः]. द्वितीयमिथ्यात्वनिरूपणम् पादयितुं च । तदुक्तं तत्त्वदीपिकायां – 'तस्माल्लौकिकपरमार्थ- रजतमेव नेदं रजतमिति निषेधप्रतियोगीति पूर्वाचार्याणां वाचोयुक्तिरपि पुरोवर्तिनि रजतार्थिनः प्रवृत्तिदर्शनात् लौकि- कपरमार्थरजतत्वेनापरोक्षतया प्रतीतस्य कालत्रयेsपि लौकिक- परमार्थरजतमिदं न भवतीति निषेधप्रतियोगितामङ्गीकृत्य नेत- व्या' इति । अयमाशयः- एकविभक्तयन्तपदोपस्थापिते धर्मिणि प्रतियोगिनि च नषोऽन्योन्याभावबोधकत्वनियमस्य व्युत्पत्ति- बलसिद्धत्वात् घटः पटो न भवतीति वाक्यवदिदं रजतं न भवतीति वाक्यस्य अन्योन्याभावबोधकत्वे स्थिते अभिलाप- जन्यप्रतीतितुल्यत्वात् अभिलप्यमानप्रतीतेः नेदं रजतमिति वाक्याभिलप्यप्रतीतेरन्योन्याभावविषयत्वमेव । तथाचेदंशब्द- निर्दिष्टे पुरोवर्तिप्रातीतिकरज़ते रजतशब्दनिर्दिष्टव्यावहारिक- रजतान्योन्याभावप्रतीतेरार्थिकं मिथ्यात्वम् । नात्र रजतमिति वाक्याभिलप्या तु प्रतीतिरत्यन्ताभावविषया भिनविभक्तचन्त- पदोपस्थापितयोरेव धर्मिप्रतियोगिनोर्नञः संसर्गाभावबोधक- त्वनियमात् । सा च पुरोवर्तिप्रतीतरजतस्यैव व्यावहारिकमत्य- न्ताभावं विषयीकरोतीति कण्ठोक्कमेव मिथ्यात्वम् । अतो 65 प्रातीतिकव्यावहारिकरजतयोस्तादात्म्यं प्रतीयते इत्यत्र संवादमाह- तदुक्त- मिति । निषेधोपयोगिनीं प्रसक्तिमाह–परमार्थरजतत्वेन अपरो- क्षतयेति । उक्तरजततादात्म्येन अपरोक्षतयेत्यर्थः । उक्ततादात्म्या- रोपं विना व्यावहारिकमिच्छतः प्रातीितके प्रवृत्तिर्न स्यादित्याशयेनाह-- रजतार्थिन इति । व्यावहारिकरजतार्थिन इत्यर्थः । उक्तनिषेधस्य मिथ्यात्वाघटकत्वेऽपि तद्बलान्मिथ्यात्वमिति मिथ्यात्वविचारे तदुक्तचुप- योगमाह–आर्थिकमिति । स्वसमानाश्रयात्यन्ताभावप्रतियोगित्वं विना