पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

78 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः नेत्यादौ चैत्रे न गोशून्यतेत्यादौ त्वसम्भवात् न तद्भाति । उक्तं हि न्यायकुसुमाञ्जलौ अभावसम्बन्धविचारप्रसङ्गे 'परस्य तादात्म्य - मस्तीति चेत्' इति । परस्य भट्टस्य मते अभावस्य तादात्म्यं सम्बन्ध इति तत्र टीकाकाराः । तथाचाधिष्ठानस्याभावानाधारत्वेऽपि न क्षतिः । अधिष्ठाने घटो नेत्यादिशब्दे सप्तमी तु आकाङ्क्षा- सम्पादनायापेक्षते नाधारत्वबोधाय । एवंचाभावे स्वाधारत्वाक- ल्पनेपि न क्षतिः । घटाभावे घटो नेत्यादौ किञ्चिद्विशिष्टघटा- भावत्वेनानुयोगितावच्छेदकरूपेण आवश्यकभेदादेवोपपत्तेः । न च या अभावव्यक्तिः तद्व्यक्तित्वेन सत्त्वव्यापिका तत्प्रतियोगित्वरूपे प्रकृतलक्षणे समवायेन घटाभावमादाय न सिद्धसाधनम्, तद्वयक्तेः घटसमवायिनि असत्त्वादिति घटादेस्संयोगिनि समवायेनाभावनिराकरणं व्यर्थमिति वाच्यम्; वक्ष्यमाणनिष्कर्षे उक्तदोषासम्भवात् । अभावी- यविशेषणतादिसंम्बन्धेन घटाधभावव्यक्ति केवलान्वयिनीमादाय सिद्ध- साधनवारणाय प्रतियोगितायाः सम्बन्धावच्छिन्नत्वनिराससार्थक्याच्च । अत्यन्ताभावेति । स्वान्यूनसत्ताकत्वरूपात्यन्तिकत्वविशिष्टसंसर्गा- भावेत्यर्थः । तेन प्रातिभासिकात्यन्ताभावमादाय न सिद्धसाधनम् । न वा निष्ठान्तेनैव ध्वंसादिवारणादत्यन्तपदार्थघटकसदातनत्ववैयर्थ्यम्, भेदस्य सत्त्वव्यापकत्वसिद्धया अर्थान्तरं स्यात् । अतः संसर्गेति । ध्वंसादेस्तु तत्सिद्ध्या' न तद्वान' तत्सिद्धेरसम्भवात् । ध्वंससामान्यं न सत्त्वव्यापकमिति बाधेन उक्तानुमानात् ध्वंससामान्याभाव सिद्धावपि भेदसामान्यं न सत्त्वव्यापकमिति बाधेन भेदसामान्याभाव सिद्धि न सम्भवति, घटत्वादिना पटादिभेदस्य सत्त्वव्यापकत्वबाधात् । अस्तु वा अत्यन्ताभावार्थकमभावपदम् । उक्ताभावप्रतियोगित्वं च उक्त- ✓ 1 अत्र तच्छब्देन स्वान्यूनसत्ताकत्वमुच्यते 2 तच्छन्दे नात्र सिद्धसाधनमुच्यते. 3 ध्वंसान्याभाव. 4 भेदान्याभाव.