पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञान-श्रुत्युपपत्तिः विरोधिवृत्ति, अनाद्यभावविलक्षणमात्रवृत्तित्वात्, अभिधेयत्व- वदिति । एवमभावविलक्षणाज्ञानेऽनुमानान्यूहनीयानि ॥ इत्यद्वैतसिद्धावविद्यानुमानोपपत्तिः ॥ 425 अथाविद्यावादे श्रुत्युपपत्तिः एवं श्रुतयश्च । तत्र छान्दोग्ये अष्टमाध्यायेत यथा हिरण्यं निधिनिहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्दे- युरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन प्रत्यूढा' इति श्रुतिर्ब्रह्मज्ञानप्रतिबन्धकत्वे- नानृतं ब्रुवाणा तादृगज्ञाने प्रमाणम् । न च - ऋतशब्दस्य 'ऋतं पिबन्ता' वित्यत्र सत्कर्मणि प्रयोगदर्शनात् 'ऋतं सत्यं तथा धर्म' इति स्मृतेश्च ऋतशब्दस्य सत्कर्मपर- त्वादनृतशब्दस्य दुष्कर्मपरत्वमिति – वाच्यम्; उत्तरत्र 'य आत्मापहतपाप्मा' इत्यादिना आत्मनोऽपहतपाप्मत्वप्रतिपादनेन तर्कैः सारस्वतै रनैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तनाशायाज्ञानस्यानुमोदयः ॥ ॥ इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां अज्ञानानुमानोपपत्तिः ॥ अथाविद्यावादे श्रुत्युपपत्तिः अनृतेन प्रत्यूढाः – अन्धीभूता अम्फुरद्वह्मस्वरूपकाः । ब्रह्म- ज्ञान प्रतिबन्धकत्वेन – ब्रह्मस्फुरणाभावव्याप्यत्वेन । अपहतपाप्म- त्वेति । पापशून्यस्वभावत्वेत्यर्थः । कदाचित्कपापसत्त्वे तच्छ्रन्यस्वभाव.