पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

421 सव्याख्यायामद्वैत सिद्धौ [प्रथमः त्तरप्रमा, स्वाभावातिरिक्तस्वविरोधिनिवर्तिका, प्रमात्वात्, भ्रमोत्तरप्रमावत् ज्ञानत्वम्, स्वविषयावरणनिवर्तकनिष्ठम्,

अप्रकाशितार्थप्रकाशवृत्तित्वात्, आलोकत्ववत् अनित्यज्ञानम्, अभावत्वानधिकरणस्वविरोधिसमानाधिकरणम्, प्रयत्नान्यत्वे सति सविषयत्वे सत्यनित्यत्वात्, अनित्येच्छावत् ; सा हि तादृग्द्वेषसमानाधिकरणा । न चैतेष्वप्रयोजकत्वशङ्का; विपक्ष- बाधकतर्कस्योक्तत्वात् । एवमन्यदप्यूहनीयम् । ज्ञानविरोधि- त्वम्, अनादिभावत्वसमानाधिकरणम्, सकलज्ञानविरोधिवृत्ति त्वात् दृश्यत्ववत् । यद्वा अनाद्यभावविलक्षणत्वम् ज्ञान- एतमजनकं यद्धाध्यं तदप्रसिद्ध्या तदन्योपादानकत्वस्य साध्यस्या- प्रसिद्धेः । बाध्योपादानकं नेति साध्य करणेऽपि स दोषः साध्यवैकल्यं च । न चैतमजनकं यद्वाध्यान्यत्तदुपादानकत्वं साध्यमिति-वाच्यम्; ब्रह्मा विद्योभयेत्यायुक्तदोषतादवस्थ्यात् जनकान्तवैयर्थ्याच्च । अचा- ध्योपादानकत्वे भ्रमस्य बाध्यत्वानुपपत्तिः प्रतिकूलतर्कोऽपि बोध्यः । अप्रकाशितार्थप्रकाशेति । प्रमालोकान्यतरेत्यर्थः । नित्यज्ञाने बाघात् - अनित्येति । स्वविरोधीति | स्वनाश्यत्वस्वप्रतिबध्यत्वान्यतरयुक्तेत्यर्थः । निवृत्तिः प्रवृत्त्यभावो न तु यत्नविशेष इति मते प्रवृत्तौ व्यभिचारात् प्रयत्नान्यत्वे सतीति । तादृग्द्वेषेति । उक्तविरोधिद्वेषेत्यर्थः । समान- विषययोः समानाधिकरणयरिच्छाद्वेषयोर्मिथः प्रतिबन्धकत्वम् । अन्यथा तयोरेकसत्त्वेऽपरोत्पादापत्तेरिति भावः । ज्ञानविरोधित्वं-- ज्ञानप्रयुक्तनाशप्रतियोगित्वम् । तेनाज्ञानसिद्धिपूर्व दृश्यमात्रस्य साक्षा- ज्ज्ञानना श्यत्वासिद्धावपि न साध्यवैकल्यम् । परमतेऽप्यदृष्टादीनां ज्ञानप्रयुक्तनाशप्रतियोगित्वमावश्यक मिति भावः । अनादिभावत्वं- अभावविलक्षणानादित्वम् || । , · १ -