पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञान-अनुमानोपपत्तिः , तु नोपाधिः; चैत्रगतप्रमाभावातिरिक्तस्य स्वजन्यव्यवहारप्राग भावस्य निवर्तकतया पक्षे साधनव्यापकत्वात् । विपक्षबाधक- सत्त्वाच्च नाभांससाम्यम् । अत एव द्वितीयानुमानमपि सम्यक् । न च – विगीतो विभ्रमः एतज्ज्ञानजनकसाध्यातिरिक्तोपादा- नकः, विभ्रमत्वात्, सम्मतवदिति सत्प्रतिपक्ष इति – वाच्यम्; बाध्यस्य त्वन्मते अजनकत्वात् साध्याप्रसिद्धेः, ब्रह्मावियो- भयोपादानकत्वेनाविरोधाच्च । नव्यास्तु विमता प्रमा, प्रमा भावातिरिक्तस्यानादेर्निवर्तिका, कार्यत्वात्, घटवत् भ्रमानु- 423 - चैत्रगतप्रमाया अभावेत्यर्थः । निवर्तकतया - निवृत्तिरूपव्यवहारजनक- तया । यद्यपि प्रतियोग्यन्या प्रागभावस्य निवृत्तिरिति मतेनैवानुमान- मिदम् ; तथाच व्यवहार एव तत्प्रागभावस्य निर्वतको न तु ज्ञानम्, • तथापि ज्ञानस्यापि व्यवहारद्वारा तत्प्रागभावनिवर्तकत्वम् । प्रयोजकत्वमा त्रस्यैव साध्यव्यापकतासंभवेन जनकत्वानवेशे वैयर्थ्यात्, शरीराज- न्यत्वोपाधौ शरीरनिवेशवत् । तात्त्विक प्रमात्वस्य हेतुत्वे तूत्तनिवृत्ति- जनकत्वमपि साधनव्यापकम् ; 'विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुत्या त्वयापि ब्रह्मप्रमाया घटाद्यभावनिवर्तकत्वेन वाच्यत्वादिति भावः ॥ , - ननु – घटश्चत्रेच्छा, चैत्रअमो वा, स्वप्रागभावान्याना दिनि- वर्तकः, घटत्वादिच्छात्वाद्धमत्वाद्वा, पटवत् मैत्रेच्छावत् मैत्रभ्रमवद्वेत्यपि स्यात्तत्राह — विपक्षेति । प्रमापक्षकोत्तानुमान एवेत्यादिः । न जाना- मीत्यायनुभवो न ज्ञानाभावविषयक इत्युक्तम् । रूप्यादेश्व शुक्तचादि- निष्ठतया प्रतीयमानस्य शुक्तयादिनिष्ठमेव परिणामि वाच्यम्; तच्च लाघवात् अनादिज्ञाननाज्ञानं नष्टमित्यनुभवादुपादाननाशं विनोपादेय- नाशासंभवाच्च ज्ञाननिवर्त्यमित्यस्मदनुमानमेव सतर्कम्, न तु त्वदनु- मानम्; साध्यं विनापि हेतुसंभवादिति भावः । साध्याप्रासद्धेः । "