पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः दुष्कर्मप्रत्यूढत्वविरोधात्, सुषुप्तौ कर्ममात्रनाशे दुष्कर्मणोऽप्य भावात्, कारणात्मनावस्थाने चाज्ञानस्यावश्यकत्वात्, कर्मण आवरणत्वानुपपत्तेश्च । ब्रह्मवेदनप्रतिबन्धकतया ह्यनादिब्रह्मा- वारकं ज्ञाननिवर्त्य वाच्यम् । तथाच कर्मेव प्रधानमपि नानृत- पदाभिधेयम्; तयोर्ज्ञानानिवर्त्यत्वात् । ज्ञाननिवर्त्यत्वे च 'भूयश्चान्ते विश्वमायानिवृत्ति' रित्यादिश्रुतिर्मानम् । न चात्र 426 - w 2 - स्वमात्मनोऽनुपपन्नम् । न च – मिथ्याभूतं पापं प्रतिबन्धकमास्ता- मिति -- वाच्यम्; अविद्यां विना तत्परिणामरूपस्य तस्यासंभवादिति भाव: । कारणात्मना कारणगतसंस्काररूपेण । अनादीति । न च पापानां प्रवाहरूपेणानादित्वात्पापत्वेन प्रतिबन्धकत्वं संभव-. तीति – वाच्यम् ; पापस्य पुण्यस्य मिथ्याज्ञानजन्यसंस्कारस्य वा ' अस्ति भाती' ति व्यवहारे प्रतिबन्धकत्व मित्यत्र विनिगमकाभावादना- • दिपापादिमिन्नं प्रतिबन्धकत्वेन कक्ष्यत इत्यस्यैवोचितत्वात् । न चानृतशब्दस्य पापे मुख्यवृत्तिसंभव एव विनिगमक इति – वाच्यम्; ऋतशब्दस्य सत्यवाचकस्य सत्यब्रह्मप्रापकत्वेन पुण्यं हि गौणार्थो न मुख्यार्थः, तथाच सत्यब्रह्मविरोधित्वेन पुण्यवासनयोरप्यनृतशब्द- गौणार्थता संभवत्येव । न चास्तु तथा श्रुत्यैव तेषां प्रतिबन्धकत्वो- न तथा नानादेरज्ञानस्य प्रतिबन्धकताया युक्तया कल्पनामिति — बाच्यम् ; पापादीनां श्रुत्यैव मिथ्यात्वोक्तस्तन्निर्वाहार्थमनाद्यज्ञानस्या- वश्यकत्वादिति भावः । न चानादि प्रधानमस्तु प्रतिबन्धकम् ; पापांदिकं तु नैकं प्रतिबन्धकं संभवतीति विनिगमकाभावः । ऋतब्रह्म- विरोधिप्रपञ्चभिन्नत्वादनृतपदेन तदेवोच्यतां तत्राह — तथाचेति । विश्वमायेति । असत्त्वापाद काभानापाद कसर्वाज्ञानेत्यर्थः । आदि- । व्यत्रहारप्रतिबन्धकत्त्र-ग. इत्यस्यौचित्यात्- ग. 3 नन्वनांदि-ग,