पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

382 सभ्याख्यायामद्वैतसिद्धौ [ प्रथमः विशेषतो ज्ञातुमशक्यत्वादिति – चेन; विशेषज्ञानाभावे ह विशेषज्ञानत्वावच्छिन्नं प्रतियोगीति तस्य ज्ञाने स विशेषोऽपि ज्ञात एवेति विशेषज्ञानाभावव्याघातात् । यत्किचिद्विशेषा- भावश्च न सामान्यावच्छिन्न प्रतियोगिताक इत्युक्तम् । प्रति- योगितावच्छेदकप्रकारकज्ञानाभावेन प्रागभावप्रतीतिरसिद्धैव । ननु – प्रतियोगितावच्छेदकप्रकारकज्ञानं नाभावज्ञाने कारणम्, किंत्वभावज्ञाने भासमानप्रतियोगिवृत्तिधर्मप्रकारकं ज्ञानम् ; सामान्यलक्षणाप्रत्यासयभ्युपगमे तु प्रतियोगिविषयत्वमपि तस्याधिकम्, इतरथा तु तदेव, इष्टवृत्तिसामान्यधर्मप्रकारक- ज्ञानमिवासिद्धव्यक्तिविषयेच्छाकृत्योः । न च - प्रतियोगिता- नवच्छेदकधर्मेण कथं प्रतियोगिता गृह्यतामिति – वाच्यम्; - - - विशेषावाच्छन्नाया व्याप्तेरिव सामान्येन ग्रहणसंभवात् । तथाहि 'इदमभिधेयवत्, प्रमेया'दित्यनुमाने 'यत्र प्रमेयं तत्राभिधेय - मिति व्याप्तिग्रहणसमये वृत्तिमत्प्रमेयत्वावच्छेदेनैव सामानाधि- करण्यरूपव्याप्तिसत्वेऽपि तस्याः प्रमेयत्वरूपेणैव ग्रहणम्, न तु वृत्तिमत्प्रमेयत्वेन; गौरवात्, वृत्तिमत्त्वविशेषणस्य व्यभिचारा- वारकत्वेन वैयर्थ्याच्च; अवृत्तिषु साध्यसामानाधिकरण्यरूप- व्याप्तयभाववत् साध्याभावसामानाधिकरण्यरूपव्यभिचारस्या- प्यभावात्, व्यर्थाविशेषणत्वरहितत्वे सति व्यभिचारिव्यावृत्त- त्वमात्रेणैव व्याप्यतावच्छेदकत्वसंभवाच्च । तथाच यथा वृत्ति- मत्प्रमेयगतापि व्याप्तिः प्रमेयत्वेनैव गृह्यते तथा तत्तन्नीलादि- माबेत्यर्थः । विशेषतः तथ्यक्तित्वेन । प्रतियोगितावच्छेदकेति । तत्तद्व्यक्तित्व रूपेत्यादिः । प्रतियोगिविषयत्वं प्रागभावप्रतियोगिविषय- कत्वम् । तदेवेति । अभावज्ञाने कारणमित्यनुषज्यते । संभवात् -