पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञान प्रत्यक्षोपपत्तिः 383 व्यक्तिगता प्रतियोगिता नीलत्वादिरूपेण गृह्यत इति न काचि- दनुपपत्तिः । एवं च 'इहेदानीं घटो नास्ती' ति प्रतीतिरिव घटो- पादानगततत्प्रागभावविषया 'माय ज्ञानं नास्ती ' ति प्रतीति- रपि प्रमातृगततत्प्रागभावविषयेति न काप्यनुपपत्तिरिति- चेन; अभावज्ञाने प्रतियोग्यंशे भासमानस्य धर्मस्यैव प्रति- योगितावच्छेदकतया यत्किञ्चिद्विशेषाभावस्य सामान्यावच्छिन्न- प्रतियोगिताकत्वे घटवत्यपि भूतले 'निर्घटं भूतल' मिति घटज्ञानवत्यपि स्वस्मिन् 'मयि घटज्ञानं नास्ती' ति च प्रतीते- रापत्तेः पूर्वोक्तदोषात् । यत्किञ्चिद्धटज्ञानं घटाभावज्ञाने प्रति- बन्धकमिति तु ज्ञानज्ञानेऽपि तुल्यम्, उदाहृतव्याप्तिग्रहणे तु बाधकाभावात्सामान्यावच्छेदेऽपि न दोषः । अथैवं प्रागभाव- प्रतीतिरेव न स्यात्, न स्यादेव; 'घटो भविष्यती' ति प्रतीतेः धात्वर्थभविष्यत्ताविषयत्वेन प्रागभावाविषयत्वात् । अन्यथा दिनान्तरोत्पत्स्यमानघटे एतहिनवृत्तिप्रांगभावप्रतियोगित्वेन " अद्य घटो भविष्यती' ति धीप्रसङ्गः | भविष्यत्वं च प्रतियोगि सानाधारकाल संबन्धित्वम् । ध्वंसत्वं च प्रागभावानङ्गीकर्तृ- मते कादाचित्काभावत्वमेव । तदङ्गीकर्तृमतेऽपि प्रतियोग्यजनक- बीसंभवात् । तत्प्रागभावेति । प्रमाप्रागभावेत्यर्थः । घटवतीति । सामान्यधर्मस्यैव प्रतियोगितावच्छेदकतया भासमानस्य प्रतियोग्यंशेऽपि प्रकारत्वावश्यकत्वादित्यादिः । सामान्यावच्छेदेऽपीत्यपिकारेण गग- नादाववर्तमानाया व्याप्तेः प्रमेयत्वं नावच्छेदकमतिप्रसक्तत्वात्, वृत्ति- मत्त्वावच्छेदेनैव ग्रहणसंभवेन व्यर्थविशेषणत्वाभावात्, वृत्तिमत्प्रमेय - त्वावच्छिन्नत्वस्य व्याप्तौ सत्त्वे ग्रहणेऽप्यदोषात् असत्त्वे ग्रहणस्यापि अमत्वादित्यादि सूचितम् | कादाचित्काभावत्वमिति | कालस्वाभ्याप- ,