पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] तेजप समम् । ननु - श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य सत्वेन तज्ज्ञानं त्वयापि वाच्यम्; तथाच तत्रापि व्याहतिस्तु- ल्येति-चेन; श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानरूपस्य प्रतियोगिनो ज्ञानाज्ञानाभ्यां व्याहत्यभावात्, न हि श्रवणादिसाध्यत्वमोक्ष- हेतुत्वादिप्रकारकब्रह्मज्ञानज्ञानं ब्रह्मज्ञानमपि सत् श्रवणादिसाध्यं, मोक्षहेतुर्वा; येन तस्मिन् सति तादृग्ज्ञानप्रागभावो व्याह न्येत । नन्वेवं – 'न जानामी' ति धियो ज्ञानाभावविषय- त्वेऽपि न प्रतियोगिज्ञानादिना व्याहतिः; सामान्यतो विषय- प्रतियोगिज्ञानेsपि विशेषतस्तदभावसंभवात्, अन्यथा प्राग- भावधीर्न स्यात्; तत्प्रतियोगिविशेषस्य सामान्यधर्म विना अंज्ञान प्रत्यक्षोपपत्तिः 381 , ष्टयमिति रीत्यसंभवेऽपि ग्रहणस्य सामग्रीसमग्रता तत्तद्विषयावगाहित्व- रूपा अपलापानर्हत्वेन तुल्या, यथा विशिष्टस्य वैशिष्टयमिति बोधे नापलापनीया तथा विशेष्ये विशेषणमित्यादिरीत्या भ्रमस्य ज्ञानेऽपीति यावत् । प्रकृतेऽपि अज्ञानप्रत्यक्षेऽपि । सममिति । उक्तसमग्रता नाप- लापार्हेत्यर्थः । यथाश्रुते ईशज्ञानस्य नित्यस्य कारणकूटरूपसाम प्रयुक्तिर- सकतेति ध्येयम् । न जानामीति प्रत्यक्षे विशेष्ये विशेषणमिति रीत्या ज्ञानाभावविषयकत्वं न संभवति; अभावप्रत्यक्षं विशिष्टस्य वैशिष्टय मिति रीतेः सर्वसम्मतत्वादित्यवधेयम् । मन्मते विशिष्टस्य वैशिष्ट्य- मिति रीत्या भ्रमविषयज्ञानेऽपि नेशस्य भ्रान्तत्वम् ; विशेषादर्शनस्यैव भ्रमस्य म्रान्तत्व रूपत्वात्, अन्यथा विशेषदर्शिनः सोपाधिकभ्रममादाय ग्रान्तत्वव्यवहारापत्तेरतस्तार्किकाणामित्युक्तम् । विशेषतस्तदभावेति । ज्ञानत्वावच्छिन्नतया ज्ञानविशेषीयतया च भासमानप्रतियोगिताका- 1 विशेषादर्शन कालीनस्यैव-ग. +