पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ 380 [प्रथमः न्यायेन विशिष्टवैशिष्ट्यज्ञानसंभवात् । अन्यथा तार्किकाणा मपीश्वरस्य भ्रान्तिज्ञत्वं न स्यात् । भ्रमविषयस्य स्वातन्त्र्येण ग्रहे भ्रान्तत्वापत्त्या भ्रमावच्छेदकतयैव तद्ब्रहणं वाच्यम्; तथाच क्व प्राक्तदवच्छेदकग्रहनियमः । ग्रहणसामग्रीतुल्यत्वं च प्रकृ ज्ञानविरोधित्वाद्यंशे स्यात् । विशेष्ये इत्यादि । अज्ञाने विरोधो विशेषणम्, तत्रापि ज्ञानम्, रक्तदण्डं न जानामीत्यादावप्यज्ञाने दण्डादिः, तत्रापि रक्तत्वादिरिति भावः । विशिष्टेति । विरोधदण्डादि- विशिष्टाज्ञानस्वरूपेत्यर्थः । एवं च विशिष्टवैशिष्टयेत्यपि सार्थकम् ; अन्यथा न्यायेन ज्ञानसंभवादित्येवोच्येत । ननु – ससंबन्धि कस्य प्रत्यक्षं विशिष्टस्य वैशिष्टयमिति रीत्यैव, अन्यथा रक्तदण्डो नास्ती-- त्यभावप्रत्यक्षेऽपि तद्रीतिनियमः सर्वसम्मतो न स्यात् ; तत्राह - अन्यथेति । उक्त प्रत्यक्षम्योक्तरीतिनियम इत्यर्थः । भ्रमविषयस्य भ्रमविशेष्यविशेषणयोः । स्वातन्त्र्येण विशिष्टस्य वैशिष्टच मिति रीत्या ग्रहे रजतेदं ज्ञानवानयमिति ग्रहे । भ्रमावच्छेदकतया - अमांशे विशेषणतया । तमूहणं भ्रमविशेष्यविशेषणयोर्ब्रहणम् । तथाचेति । उक्त प्रत्यक्षे उक्तरीत्यनियमे चेत्यर्थः । तदवच्छेदकेति । न जानामीति प्रत्यक्षे विशेषणतावच्छेदकज्ञानादित्यर्थ: । न चेदंरज- तयोमे विशेषणतया भानेऽपि तयोरेकविषयता वच्छिन्नस्या परविषय- त्वस्यामानेन भ्रमज्ञत्वं समूहालम्बनज्ञानज्ञत्व साधारणमिति – वाच्यम्; विशिष्टस्य वैशिष्ट्यमिति रीतावपि तदभानस्य तुल्यत्वात् । अथ रजतस्य विशेषणत्वेन स्वविशेष्येदमंशे विशेष्ये ज्ञानेऽपि विशेषणत्वात् ज्ञानस्य चेदंविषयताविशिष्टत्वेन विशेष्यत्वादिदं विषयता वच्छिन्नविष- यतासंबन्धेन रजतस्य ज्ञाने भानम्, तर्हि रजतस्येदमंशे विशेषणत्वं विनापि तद्बोध्यम् । ग्रहणसामग्रीतुल्यत्वमिति । विशिष्टस्य 3 शत्व-ग. 1 • रक्तत्वादिविशेषणांमति-ग. 2 ज्ञानदीत्यार्थः --ग. 4