374 सव्याख्यायामद्वैतसिद्धी [प्रथमः क्षणमेवाज्ञानं 'मयि ज्ञानं नास्ति' 'अहमज्ञ' इत्यादिधीविषय इति सिद्धम् । नन्वभावविलक्षणमप्यज्ञानं 'न जानामी 'ति ज्ञानविरोधित्वेनैव भासते, मोहादिपदेऽपि प्रळयादिपदवत्तद- नुल्लेखमात्रम्; उक्तं च विवरणे – 'अज्ञानमिति द्वयसापेक्ष ज्ञानपर्युदासेनाभिधानादि’ति । अन्यथा ज्ञानस्याज्ञानविरोधि- त्वमप्रामाणिकं स्यात्; तथाच विरोधनिरूपकज्ञानस्य ज्ञाना- ज्ञानाभ्यां तवापि कथं न व्याघातः १ एवं निर्विषयाज्ञाना- प्रतीतेर्विषयज्ञानाज्ञानयोरपि व्याघात आपादनीय: ; तथाच - द्वयसापेक्षज्ञानपर्युदासेनेति । अज्ञानं भावरूपं स्वाश्रय विषयमित्युक्ता ज्ञानस्य न स्वविषयाश्रितत्वमन्त्रास्याज्ञान मिति विषयाश्रयभेदानुभवा- दित्याशङ्कय नोक्तानुभवेऽस्येति अज्ञानाश्रयभानम् ; किंत्वस्यात्र यज्ज्ञानं तद्विरोधित्वेनाज्ञानभानमित्याशयेनोक्तमज्ञानमिति । द्वयेत्या - दि आश्रयविषयरूपद्वयसापेक्षं यज्ज्ञानं तत्पर्युदासेनाज्ञानमित्यभि - धानादित्यर्थः । तवापीति | प्रमाणवृत्त्यभावकाले न जानामीति घर्वािच्या; अन्यथाऽविद्यावृत्त्यादिकाले सा न स्यात् । तथाच प्रमाण- वृत्तिसामान्यविरोधित्वेनाज्ञानविषयको क्तधी कालेऽज्ञानाकारायाः प्रमाणवृ तेरावश्यकत्वात् तादृशस्मृतेः सर्वत्र संभवात् संभवेऽपि तस्या विशेष- णधीविधया हेतुत्वेऽपि ज्ञानविरोधित्वप्रकारकप्रमाण वृत्तेरवश्यं वाच्य- त्वात्, अन्यथा अज्ञानमात्रस्य साक्षिभाम्यत्वेन ज्ञानविरोधित्वेन भाना- संभवाद्याघात इति भावः । ननु – ज्ञानविरोधित्वेनाप्यज्ञानं साक्षिणा भास्यतां तत्राह -- अन्यथा ज्ञानस्येति । अज्ञाने ज्ञानविरोधित्वप्र- कारकवृत्तिं विना तत्र तदसिद्धेः सावश्यं वाच्या | तस्याः सत्त्वे च तद्घटितज्ञानसामान्यविरोधित्वं न संभवतति भावः ॥ ु न 1 मात्रस्याज्ञाना-ग.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९०१
दिखावट