पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञानप्रत्यक्षोपपत्तिः यत्रोभयोः समो दोषः परिहारोऽपि वा समः । नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥ इति न्यायेनोभयपरिहरणीयस्य व्याघातस्य ज्ञानाभावपक्ष एवा- 376 यद्यपि भावरूपाज्ञानस्यापि प्रमाणरूपविषयनिष्ठता, तद्वृत्तिका योपादानत्वात् । अत्रास्याज्ञानमित्यत्र त्वस्येति निरूपितत्वं षष्ठ्या निर्दि- श्यते, तत्पुरुषीयज्ञाननिवर्त्यत्वनियामकस्य तत्पुरुषनिरूपितत्वस्याज्ञानेऽ- वश्यं वाच्यत्वात् । तथा च न ज्ञानविरोधित्वं न जानामीति धीवि- षयः ; किं त्वखण्डोऽज्ञानत्वाख्यो धर्मः | विवरणोक्तिस्तु संभवप्रा- चुर्येणाज्ञानाकारप्रमाणवृत्तिसत्त्वेऽत्रास्याज्ञानं स्थितमित्यादिबुद्धिमादाय बोध्या । अत एवाभिधानादित्यनेन परोक्षत्वं सूचितम् । एवं चातीतमे- तद्विषयाश्रितमज्ञानमेतद्विषयकप्रमाविरोध्यज्ञानसामान्यं स्वविषयाश्रयवि- षयकप्रमाविरोधि वेत्यनुमानेऽपि न दोषः । न हि तदज्ञानस्याज्ञानसा- मान्यस्य वा स्थितिकाले उक्तानुमानम्; येन विरोध:, तथाच न जानामीति प्रत्यक्षे तद्विषयकत्वेन कारणतावच्छेदकत्वेन च सिद्धम- खण्डमज्ञानत्वं मातीत्यस्मन्मते न दोषः । न च न जानामीति वाक्येनो- क्तप्रत्यक्षा भिलापासंभवः उक्तवाक्यप्रत्यक्षयोभिन्नविषयकत्वादिति-वा- च्यम्; लक्षणयोक्तवाक्यस्योक्त प्रत्यक्ष समानविषयकत्वात्, अन्यथा पाप- त्वादेनलत्वादिव्याप्यजातेश्च ज्ञान स्याधर्मानुद्भूतरूपादिशब्दैरभिलापा- संभवात् । न चैवमप्यज्ञानविषयस्य ज्ञानाज्ञानाभ्यां व्याघात इति - वाच्यम्; ज्ञानादिष्विवाज्ञानेऽपि विशेषणतया विषयस्य साक्षिभास्यत्व- संभवात् । विषयत्वविशिष्टे विद्यमानेऽनावृतसाक्षिसंबन्धरूपस्य साक्षि- भास्यत्वस्य माध्वैरपि स्वीकारेण तत्र संशयाद्ययोग्यत्वस्य सर्ववादिसम्म - तत्वात्, तथापि न जानामीति प्रत्यक्षे प्रमाविरोधित्वेनाज्ञानभानेऽपि

, - . ज्ञात-ग.