परिच्छेदः] अज्ञानप्रत्यक्षोपपत्तिः - - विषयावैलक्षण्ये प्रतीतिवैलक्षण्यायोगात् । विषयाज्ञानमनु- भूय च पुरुषस्तभिवृत्यर्थ विचारे प्रवर्तत इति सर्वानुभव- सिद्धम् । तद्यदि ज्ञानविशेषाभावो 'न जानामी 'ति प्रतीतेर्वि- षयः, तदा ज्ञातेऽपि तथा प्रतीत्यापातः; ताईचारार्थ च प्रवृत्तिः स्यात् । सामान्याभावें च बाधकमुक्तमेव । तस्मादभावविल- दिबुद्धेः प्रतियोगिनि पारमार्थिकत्व भ्रमत्वादभावांशे तदवच्छिन्नप्रति- योगिताकत्वभ्रमत्वमपि स्यादिति – वाच्यम्; उक्तप्रतियोगिताकत्वांशे बाघकाभावादबाधित प्रतीत्याव्यधिकरणरूपेणावच्छिन्न प्रतियोगिताकाभाव- सिद्धेः । न चैवं – विशेषाभावांशे सामान्यावच्छिन्नप्रतियोगिताकत्व- • मपि धीबलात्स्वीकृत्य प्रतियोग्यंशे प्रकारस्यैवावच्छेदकत्वमिति निय- मस्त्यज्यतामिति- वाच्यम्; वन्हित्वेन द्रव्यं नास्तीत्यादाविव द्रव्यत्वेन 'बन्हिर्नास्तीत्यत्रापि प्रतियोग्यंशे प्रकारवन्हित्वस्यैवावच्छेदकतया मान- संभवेन वन्हयादिमात्रनिष्ठप्रतियोगितावच्छेदकत्वस्य द्रव्यत्वादाबक्ल- तस्य भाने मानाभावेन धीबलाभावात् । न ह्यवच्छेदकतया भासमानस्यैव प्रतियोग्यंशे प्रकारत्वमिति नियमः; प्रमेयघटो नास्तीत्यादौ प्रमेयत्वादे- रनवच्छेदकस्यापि प्रतियोगिनि प्रकारत्वमिति मिश्रादिभिरुतत्वात्, ' प्रतियोगिताश्च विशिष्योपादेया' इत्यादिदीधित्यादिग्रन्थेषु पारिभाषि- कावच्छेदकत्व विशिष्टतत्तद्ध्यक्तीनां तत्तद्व्यक्तित्वैर्भेदकूटनिवेशस्योक्तत्वाच्च । न च-घटो न पट इत्यादिघी कालेऽपि पटत्वेन घटो नास्तीति बुद्धयु- दयानोक्तनियम इति वाच्यम्; उक्तषीकालेऽपि घटत्वपटत्वयोः 'एकत्र द्वयमिति' न्यायेन भानसंभवेनोक्तबुद्धिसंभवात् ॥ -- विषयाज्ञानं – विषयविशेषिताज्ञानम् | ज्ञानविशेषाभावः- विषयविशेषितज्ञानविशेषस्याभावः । ज्ञातेऽपीति | विषय इति शेषः । विषयज्ञानं विना विषयविशिष्टज्ञानस्य ज्ञानासंभवादिति भावः । 373 ·
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९००
दिखावट