पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अंज्ञानप्रत्यक्षोपपतिः परिच्छेदः] • 369 स्यापि भावरूपाज्ञानविषयत्वेन विषयभेदाप्रतीतेर्युक्तत्वात् । तथाहि — 'मयिं ज्ञानं नास्ती 'ति प्रतीतिः 'वायौ रूपं नास्ती' ति प्रतीतिवद्यावद्विशेषाभावान्यसामान्याभावविषया, सामान्या- वच्छिन्न प्रतियोगिताकयावाद्वेशेषाभावविषया वा अभ्युपेया । तथाच तत्कारणीभूतघर्मिप्रतियोगिज्ञानाज्ञानाभ्यां कथं न व्या घातः १ यत्किचिद्विशेषाभावस्य सामान्यावच्छिनप्रतियोगि- ताकत्वाभावात् अभावज्ञाने प्रतियोग्यशे प्रकारीभूतधर्मस्यैव प्रतियोगितावच्छेदकत्वात् । अन्यथा सामान्याभावसिद्धिर्न स्यात् । यावद्विशेषाभावान्यसामान्याभावानभ्युपगमेऽप्ययं दोषः । य- त्किचिद्विशेषाभावस्य सामान्यावच्छिन्न प्रतियोगिताकत्वे घटव- १ " - वृत्तित्वादिकम्; "कम्बुप्रीवादिमान्नास्ति' 'प्रमेयघटो नास्ती' त्यादे- रपि प्रमात्वापत्तेः, किंत्वखण्डो धर्मविशेषः, स च सामान्यधर्मस्य किंचिद्विशेषाभावप्रतियोगितां प्रत्यप्यस्तु तत्राह - अभावज्ञान इति । धर्मस्यैवेति । अन्यथा घटो नास्तीत्यादौ पटत्वाद्यवच्छिन्नप्रतियोगित्व- स्यापि मानापतेरिति भावः । ननु – प्रतियोग्यंशे प्रकारीभूतं तव्यापकं वा अवच्छेदकतयाऽभावबुद्धौ भाति ; अत एव कम्बुग्रीवा दिमान्नास्तीत्या- दावपि घटत्वादेवच्छेदकतया भानात्प्रमात्वमेव, पूर्वस्यावच्छेदकत्वा- संभवे सत्येवोत्तरस्य तथा भानान्नातिप्रसङ्ग इत्यत आह - अन्यथेति । सामान्यावच्छिन्नप्रतियोगिताकत्वबुद्धौ विशेषाभावस्यापि माने इत्यर्थः । तादृशबुद्धिमात्रे तथा संभवादिति शेषः । अयं प्रतियोग्यंशे प्रकारान्य- स्यावच्छेदकत्वासंभवरूपः । न च प्रतियोग्यंशेऽपि सामान्यधर्मः प्रकार इति - वाच्यम्; तथा सति विनिगमकाभावन सामान्यधर्माश्रयाणां • 1 वृत्तित्वाद-ग. ADVAITA VoL. II. 24