पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

368 सब्याख्यायामद्वैतसिद्धौ प्रथमः - वन प्रमातृगताज्ञानेनैवोपपत्तेः । अत एव परोक्षज्ञानेन प्रमा- तृगताज्ञाने नाशितेऽपि विषयगताज्ञानसत्त्वेन 'न जानामी 'ति व्यवहारापत्तिरिति — निरस्तम् प्रमातृगताज्ञानकार्यस्य 'न जानामी ' ति व्यवहारस्य विषयगताज्ञानेनापादयितुमशक्यत्वात् । ननु -- भावरूपाज्ञानविषयत्वेनाभिमतस्य 'अहमज्ञ' इति प्रत्य- यस्य ' मयि ज्ञानं नास्ती 'ति ज्ञानाभावविषयात्प्रत्ययात् 'अघटं भूतल 'मिति प्रत्ययस्य 'घटो नास्ती' ति प्रत्ययादिव विशेषण- विशेष्यभावव्यत्यासं विना इच्छाद्वेषाभावज्ञानयोरिव विषयभेदा- प्रतीतिरिति–चेत्, सत्यम्; धर्मिंप्रतियोगिज्ञानाज्ञानाभ्यां ज्ञान- सामान्याभावज्ञानस्य व्याहतत्वेन 'मयि ज्ञानं नास्ती 'त्य- सङ्ग्रहः । प्रमातृगतेति । न जानामीत्यत्र हि ज्ञानसामान्यविरोध्य - ज्ञानं विषयः, तच्च न विषय 'गतम् ; तस्य परोक्षज्ञानाविरोोधत्वात् । अत एव प्रत्यक्षधीविरोध्यज्ञानविषयको न भातीति व्यवहारो विषय. गताज्ञानमात्रेण भवत्येव । न च – विषयगताज्ञानस्य प्रमातरि निरूप- कत्व संबन्धसत्त्वोत्तनैव न जानामीति धीरिति- - वाच्यम्; परोक्ष- ज्ञानेनापरोक्ष अमोपादानाज्ञाननिवृत्त्यसंभवात् । न च – परोक्षं नाज्ञा- ननिवर्तकम्, किंतु भ्रमविषये मिथ्यात्वनिश्चायका मेति वाच्यम्; अपरो- क्षेत्राप तथापत्ते, परोक्षज्ञाने सति न जानामीति व्यवहारापत्तेः ज्ञाना- दज्ञानं नष्टमित्यनुभवस्य परोक्षस्थलेऽपि तुल्यत्वाच्च । ज्ञानाभाववि- षयात् ज्ञानाभावविषयकत्वेनाभिमतात् । तेन सत्यमित्यग्रिमस्य न विरोधः । इच्छत्यादि । इच्छामि न द्वेष्मीति ज्ञानयोर्यथा भिन्नो विषयः प्रतीयते तथा प्रकृते नेत्यर्थः । नन्ववच्छेदकत्वं नानतिरिक्त- 9 । परोक्षापरोक्षसाधारणज्ञानमात्रविरोध्य - ख. 2 तच्च प्रमातरि न तु. विषय- 8 विषयताज्ञानस्य - ख. ग.