पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

370 सभ्याख्यायामद्वैतसिद्धौ [ प्रथमः त्यपि भूतले 'निषेट भूतल' मिति प्रतीतिः स्यात्' 'वायौ रूपं नास्ति' 'पुरो देशे रजतं नास्ती' त्याद्यावाक्यजन्यप्रती- त्यनन्तरमपि तत्तत्संशयनिवृत्तिर्न स्यात् ; एकविशेषाभावबोध- नेsपि विशेषान्तरमादाय संशयोपपत्तेः । अथ - अभावबोधे सर्वेषामेव प्रतियोगितया भानापत्त्या विशेषाभावभानोक्तिविरोधादिति भावः । प्रतीतिः प्रमा | 11 . १ संशयोपपत्तेरिति । नच - रूपत्वावच्छिन्न प्रतियोगिताकत्व- विषयकाभावधीत्वेन विशेषाभावधीरपि सामान्यसंशयविरोधिनीति-- वाच्यम् ; बद्रत्वेन पटो नास्त्यत्रेति ज्ञानस्य घटवदिदमिति ज्ञाने विरोधित्वापत्त्याऽभावांशे प्रकारता येन रूपेण तदवच्छिन्न प्रतियोगिता- कत्वधीत्वेनैव तद्रूपविशिष्टवत्ताधीविरोधित्वस्य त्वया वाच्यत्वात् । यचु- ‘अपशवो वान्ये गोऽश्वभ्य इत्यस्येव वायौ न रूपमित्यस्यापि सामा- न्यरूपेण विशेषाभावपरत्वधीकाले विशेषान्तरसंशयाविरोोधत्वेऽपि तस्य सकलरूपाभावपरत्वधीकाले तज्जन्यज्ञानं सकलरूपसंशयविरोध्येवेति- तन्न; विपरीतव्युत्पन्नस्य घटः कर्मत्वमित्यादिवाक्या द्बोधविशेषस्यैवोक्त'. बाक्याद्विशेषाभावबोषेऽपि सद्व्युत्पन्नस्य तदभावात्सद्व्युत्पन्नमधिकृत्यैव प्रकृतोक्तेः प्रवृत्तत्वात् प्रतियोग्यशे प्रकारस्यैवावच्छेदकतया शाब्द- बोधे भानस्य व्युत्पत्तिसिद्धत्वात् । अपशव इत्यत्र तु पशुपदेन प्रशस्त पशुत्वेन बोध्यत इति गौण्या वृत्तेर्व्युत्पादनप्रस्ताबे तत्सिद्धिपेटिकायां स्थितम् । पशुत्वेन प्रशस्तपशुभेदबोधने तु गौण्या व्युत्पादनं व्यर्थम् ; पशुत्वसामान्यस्यैव तदाश्रयावशेषे प्रतियोगिनि प्रकारत्वसंभवात् । प्रशस्तपशुत्वस्य प्रतियोग्यशे प्रकारत्वे तु तस्यैव प्रतियोगितावच्छेदक- तया भानम् । न हि शुद्धपशुत्वं त्वत्कुलधर्मः, येन तत्र भक्तोऽसि ॥ 1 विशेषस्येवोक्त-ग. ,